एवमुच्चार्य विप्राय प्रदेयाः कृत्तिका नृप
धर्मदाः कामकाः संतु इमा नक्षत्रमातरः
अनेन विधिना दत्त्वा दृष्ट्वा चैवांबरे स्थिताः निवर्त्य च कथार्थं तु शृणुयात्फलमाप्नुयात् ।। 4.103.
विमानेनार्कवर्णेन गत्वा नक्षत्रमंडलम्
दिव्यनारीगणवृतः सुखं भुंक्ते ह्यनामयम्
पारिजातकमंदारपुष्पभारोपशोभितः
ताराः ' कृत्वा व्रतांते वा गत्वा स्वर्गं सभर्तृका
यश्चैतच्कृणुयात्पार्थ भक्तियुक्तः समाधिना
सौवर्णरौप्यमणिगोनवनीतसिद्धाः षट् कृत्तिकाः कणिकपिष्टमयीश्च कृत्वा
पूर्णमनोरथव्रतवर्णनम् पाखंडान्पतितांश्चैव तथैवान्त्यावसायिनः
नास्तिकान्भिन्नवृत्तांश्च पापिनो नैव चालपेत्
तिष्ठन्व्रजन्प्रस्खलन्वा भुंजानोपि जनार्दनम्
लक्ष्म्या समन्वितं देवमर्चयेच्च जनार्दनम् रात्रौ च लक्ष्मीं संचिन्त्य सम्यगर्घेण पूजयेत
श्रीनिशाकररूपस्त्वं वासुदेव जगत्पते
मंत्रेणानेन दत्त्वार्घं देवदेवस्य भक्तितः
तथैव चैत्रे वैशाखे ज्येष्ठे च नृपसत्तम
निष्पादितं भवेदेकं पारणं पार्थ शक्तितः
आषाढे श्रावणे मासि प्राप्ते भाद्रपदे तथा अर्घं चन्द्रमसे दत्त्वा भुञ्जाताथ यथाविधि
द्वितीयमेतदाख्यातं तृतीयं पारणं शृणु भूत्या समन्वितं दद्याच्छशांकाय तथा निशि । 4.104.
भुञ्जीत च यथाख्यातं तृतीयं पारणं शृणु प्रतिमासं च वक्ष्यामि प्राशनं कायशुद्धये
चतुरः प्रथमान्मासान्पञ्चगव्यमुदाहृतम्
सूर्यांशुतप्तं तद्वच्च जलं कायविशोधनम् कारयेच्चैव देवस्य पारणेपारणे गते
जनार्दनं सपत्नीकमर्चयेत्प्रथमं ततः
प्रतिमासं तु नामानि कृष्णस्यैतानि भारत उच्चारयन्नरो याति यथालोकं यथासुखम्
ततो विप्राय वै दद्यादुदकुंभं सदक्षिणम्
यद्वै मासगतं नाम प्रीयतामिति कीर्तयेत्
माधवं माघमासे तु गोविन्दमपि फाल्गुने
ज्येष्ठे त्रिविक्रमो ज्ञेयस्तथाषाढे च वामनः
रामो भाद्रपदे मासि गीयते पुण्यकांक्षिभिः 4.104.
कार्तिके देवदेवेशं स्तुवंस्तरति दुर्गतिम् यदि दातुं न शक्नोति दद्याच्चैवैकहेलया