कदाचिदर्धरात्रे तु सुप्ता भर्त्रा सहैव सा
तेन दोषेण सा बाला अजायोनौ ह्यजायत
पूर्वाभ्यासेन तेनैव गृहीतं कृत्तिकाव्रतम् 4.103.
परक्षेत्रेण गच्छंती अजा सस्यावमर्द्दनी
दृष्टात्रिणा महाभागा पूर्वजातिस्मरेण सा
मोक्षिता बदरीबद्धा चरंती कृत्तिकाव्रतम्
संप्राप्य बदरीपत्रं पीत्वा पुष्करिणी पयः तस्यै योगं ततो दत्त्वा जगामात्रिस्तपोवनम्
सापि योगेश्वरी भूत्वा निंदित्वा जन्म चात्मनः ऋषेर्बभूव दुहिता ह्यहल्यागर्भसुन्दरी
योगलक्ष्मीति नाम्ना सा कन्या गुणगणैर्युता तपोधनाय दांताय नित्यं सहचरी बभौ
ब्राह्मलक्ष्म्या दीप्यमाना साक्षाद्वेदस्मृतिर्यथा
गौरी राज्ञी तथा लक्ष्मीर्गायत्री चोत्तमा सती
पितृदेवमनुष्याणां नित्यं शुश्रूषणे रता
भक्त्या भिक्षां प्रयच्छंती ब्राह्मणानामनिंदिता 4.103.
योगलक्ष्मि महाभागे वर्तंते कति कृत्तिकाः षड्वर्तंते महायोगिन्नेका परवशे स्थिता
तच्छ्रुत्वास्यै भगवता सकारुण्येन चेतसा
इह भुक्त्वा चिरं भोगान्पुत्रपौत्रश्रिया वृता
युधिष्ठिर उवाच कीदृशं तद्व्रतं कृष्ण मंत्रश्चापि जनार्दन
यदा स्यात्सोमवारेण सा महाकार्तिकी स्मृता
ईदृशी बहुभिर्वर्षैर्बहुपुण्यैश्च लभ्यते
अन्यापि कार्तिकी पार्थ समुपोष्य विधानतः
कार्त्तिके शुक्लपक्षस्य पूर्णमास्यां दिनोदये
उपवासस्य वा शक्त्या ततः स्नात्वा जलाशये
शालग्रामे कुशावर्ते मूलस्थाने सकुन्तले 4.103.
पुरे वा नगरे वापि ग्रामे घोषेऽथ पत्तने देवर्षिपितृपूजां च कृत्वा होमं युधिष्ठिर
ततोऽस्तसमये प्राप्ते पात्रं गव्यस्य सर्पिषः षट्प्रमाणं यथा व्योम्नि कृत्तिकाशकटं न्यसेत्
षट्कृत्तिकानां बिंबानि स्वर्णरौप्यमयानि च ।। रत्नगर्भाणि कुर्याच्च स्वशक्त्या पाण्डुनन्दन
प्रथमा स्वर्णनिष्पन्ना द्वितीया रौप्यकीकृता
पञ्चमी कणिकान्यूना षष्ठी पिष्टमयी कृता
रत्नगर्भाः कुंकुमाक्ताः पृष्ठतः स्तबकान्विताः मंत्रेणानेन राजेन्द्र द्विजाय प्रतिपादयेत्
ॐ सप्तर्षिदारा ह्यनलस्य वल्लभा या ब्रह्मणा रक्षितयेति युक्ताः