एतत्पुण्यं पापहरं धन्यं दुःस्वप्ननाशनम् 4.102.
स्मृत्यर्थवेदजननीं सहशंभुजायां संपूजयेदिह त्रिरात्रकृतोपवासा
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वटसावित्रीव्रतवर्णनं नाम द्व्यधिकशततमोऽध्यायः
कार्तिककृत्तिकाव्रतवर्णनम् नाम्ना कलिंगभद्रेति रूपलावण्यसंयुता
तुंगस्तनी पद्मनेत्रा हंसनागेन्द्रगामिनी
धनरत्नैश्च संपूर्णा मध्यदेशे वृषस्थले कलिङ्गभद्रा ललिता महादेवी गुणान्विता
महाप्रसादं मन्वाना बहुमानपुरस्सरम्
त्यागसंभोगसौभाग्ये द्वितीया नैव तादृशी
यथा च कार्त्तिके मासि गृहीतं क्षत्त्रयाव्रतम् पारितं च तया सर्वं किंचिन्मात्रं तु वर्तते
पारणेपारणे वापि पुराणज्ञे द्विजोत्तमे
कदाचिदर्धरात्रे तु सुप्ता भर्त्रा सहैव सा
तेन दोषेण सा बाला अजायोनौ ह्यजायत
पूर्वाभ्यासेन तेनैव गृहीतं कृत्तिकाव्रतम् 4.103.
परक्षेत्रेण गच्छंती अजा सस्यावमर्द्दनी
दृष्टात्रिणा महाभागा पूर्वजातिस्मरेण सा
मोक्षिता बदरीबद्धा चरंती कृत्तिकाव्रतम्
संप्राप्य बदरीपत्रं पीत्वा पुष्करिणी पयः तस्यै योगं ततो दत्त्वा जगामात्रिस्तपोवनम्
सापि योगेश्वरी भूत्वा निंदित्वा जन्म चात्मनः ऋषेर्बभूव दुहिता ह्यहल्यागर्भसुन्दरी
योगलक्ष्मीति नाम्ना सा कन्या गुणगणैर्युता तपोधनाय दांताय नित्यं सहचरी बभौ
ब्राह्मलक्ष्म्या दीप्यमाना साक्षाद्वेदस्मृतिर्यथा
गौरी राज्ञी तथा लक्ष्मीर्गायत्री चोत्तमा सती
पितृदेवमनुष्याणां नित्यं शुश्रूषणे रता
भक्त्या भिक्षां प्रयच्छंती ब्राह्मणानामनिंदिता 4.103.
योगलक्ष्मि महाभागे वर्तंते कति कृत्तिकाः षड्वर्तंते महायोगिन्नेका परवशे स्थिता
तच्छ्रुत्वास्यै भगवता सकारुण्येन चेतसा
इह भुक्त्वा चिरं भोगान्पुत्रपौत्रश्रिया वृता
युधिष्ठिर उवाच कीदृशं तद्व्रतं कृष्ण मंत्रश्चापि जनार्दन
यदा स्यात्सोमवारेण सा महाकार्तिकी स्मृता
ईदृशी बहुभिर्वर्षैर्बहुपुण्यैश्च लभ्यते
अन्यापि कार्तिकी पार्थ समुपोष्य विधानतः