जीवितं च तथा भर्तुधर्मसिद्धिश्च शाश्वती 4.102.
अथ भर्तारमासाद्य सावित्री हृष्टमानसा
भाद्रस्य पौर्णमास्यां तु यथा चीर्णं व्रतं त्विदम्
तस्मिन्भाद्रपदे मासि सिद्धान्नं तस्य कीदृशम्
का देवता व्रते तस्मिन्ब्रूहि कामं प्रति प्रभो
श्रूयतां पांडवश्रेष्ठ सावित्रीव्रतमादरात्
त्रयोदश्यां भाद्रपदे दंतधावनपूर्वकम्
अशक्त्या तु त्रयोदश्यां नक्तं कुर्याज्जितेन्द्रियः
नित्यं स्नात्वा महानद्यां तडागे चाथ निर्झरे
गृहीत्वा तिलकान्पात्रे प्रस्थमात्रं युधिष्ठिर
ततो वंशमये पात्रे वस्त्रयुग्मेन वेष्टयेत् 4.102.
सौवर्णी मृन्मयीं वापि स्वशक्त्या रौप्यनिर्मिताम्
सावित्रीं ब्रह्मणा सार्द्धमेवं भक्त्या प्रपूजयेत्
पूर्णैः कोशातकैर्भक्ष्यैः कूष्मांडैः कर्कटीफलैः
जंबूजंबीरनारंगैः कर्कटैः पनसैस्तथा
विरूढैः सप्तधान्यैश्च वंशपात्रे प्रकल्पितैः
अवतारवतीत्येवं सावित्री ब्रह्मणः प्रिया इतरेषां पुराणोक्तमंत्रोऽत्र समुदाहृतः
ॐकारपूर्वके देवि वीणापुस्तक धारिणि
एवं संपूज्य विधिवज्जागरं कारयेत्ततः
नृत्यहासैर्नयेद्रात्रिं पृष्ठतश्च कथानकैः यावत्प्रभातसमयं गीत्या भावरसैः समम्
ततः प्रभाते विमल उषःकाले ह्युपस्थिते 4.102.
यथा सावित्रकल्पज्ञे सावित्र्याख्यानवाचके
मंत्रेणानेन कौंतेय प्रणम्य विधिपूर्वकम् सुधी विप्रवरो विप्र ॐकारस्वस्तिपूर्वके
सावित्रीयं मया दत्ता सहिरण्या महासती
एवं दत्त्वा द्विजेंद्राय सावित्रीं तां युधिष्ठिर स्वयं दशपदं गच्छेत्स्ववेश्म पुनराविशेत्
तत्र भुक्त्वा हविष्यान्नं ब्राह्मणैर्बांधवैः सह
पंचदश्यां तथा ज्येष्ठे वटके च महासती
सार्द्धं सत्यवता साध्वी फलनैवेद्यदीपकैः
रात्रौ जागरणं कृत्वा नृत्यगीतपुरस्सरैः तत्सर्वं ब्राह्मणे दद्यात्प्रणिपत्य क्षमापयेत्
एतत्तु ते व्रतमिदं कथितं विधिवन्मया भुक्त्वा भोगांश्चिरं भूमौ यास्यंति ब्रह्मणः पदम्