क्षीणायुरेष ते भर्ता तं नयामि पतिव्रते 4.102.
एवमुक्त्वा सत्यवतः शरीरात्पाशसंचयैः अथ प्रयातुमारेभे पंथानं पितृसेवितम्
सावित्र्यपि वरारोहा पृष्ठतोऽ नुजगाम ह
निवर्त गच्छ सावित्रि स्वगृहे त्वमिहागता
भर्तारमनुगच्छंति यास्तासां न श्रमादयः
सतां संतो गतिर्नान्या स्त्रीणां भर्ता सदा गतिः
सर्वेषामेव जंतूनां स्थानमस्ति महीतलम्
एवमन्यैश्च विविधैर्वाक्यैर्द्धर्मार्थसंहितैः
तुष्टोऽस्मि तव भद्रं ते वरं वरय भामिनि
चक्षुःप्राप्तिस्तथा राज्यं श्वसु रस्य महात्मनः
जीवितं च तथा भर्तुधर्मसिद्धिश्च शाश्वती 4.102.
अथ भर्तारमासाद्य सावित्री हृष्टमानसा
भाद्रस्य पौर्णमास्यां तु यथा चीर्णं व्रतं त्विदम्
तस्मिन्भाद्रपदे मासि सिद्धान्नं तस्य कीदृशम्
का देवता व्रते तस्मिन्ब्रूहि कामं प्रति प्रभो
श्रूयतां पांडवश्रेष्ठ सावित्रीव्रतमादरात्
त्रयोदश्यां भाद्रपदे दंतधावनपूर्वकम्
अशक्त्या तु त्रयोदश्यां नक्तं कुर्याज्जितेन्द्रियः
नित्यं स्नात्वा महानद्यां तडागे चाथ निर्झरे
गृहीत्वा तिलकान्पात्रे प्रस्थमात्रं युधिष्ठिर
ततो वंशमये पात्रे वस्त्रयुग्मेन वेष्टयेत् 4.102.
सौवर्णी मृन्मयीं वापि स्वशक्त्या रौप्यनिर्मिताम्
सावित्रीं ब्रह्मणा सार्द्धमेवं भक्त्या प्रपूजयेत्
पूर्णैः कोशातकैर्भक्ष्यैः कूष्मांडैः कर्कटीफलैः
जंबूजंबीरनारंगैः कर्कटैः पनसैस्तथा
विरूढैः सप्तधान्यैश्च वंशपात्रे प्रकल्पितैः
अवतारवतीत्येवं सावित्री ब्रह्मणः प्रिया इतरेषां पुराणोक्तमंत्रोऽत्र समुदाहृतः
ॐकारपूर्वके देवि वीणापुस्तक धारिणि
एवं संपूज्य विधिवज्जागरं कारयेत्ततः
नृत्यहासैर्नयेद्रात्रिं पृष्ठतश्च कथानकैः यावत्प्रभातसमयं गीत्या भावरसैः समम्