सकृत्प्रदीयते कन्या त्रीण्येतानि सकृत्सकृत्
दीर्घायुरथ वाल्पायुः सगुणो निर्गुणोऽपि वा 4.102.
मनसा निश्चयं कृत्वा ततो वाचाऽभिधीयते
अविघ्नमग्रे सावित्र्याः प्रदाने दुहितुस्तव
एवमुक्त्वा समुत्पत्य नारदस्त्रिदिवं गतः शुभे मुहूर्ते पार्श्वस्थैर्ब्राह्मणैर्वेदपारगैः
सावित्र्यपि वरं लब्ध्वा भर्तारं मनसेप्सितम्
एवं तत्राश्रमे तेषां वसतां प्रीतिपूर्वकम्
सावित्र्यास्तप्यमानायास्तिष्ठंत्याश्च दिवानिशम्
ततः काले बहुतिथे व्यतिक्रांते कदाचन प्रोष्ठपदे सिते पक्षे द्वादश्यां रजनीमुखे
गणयन्ती च सावित्री नारदोक्तं वचो हृदि
ततस्त्रिरात्रं निर्वर्त्य स्नात्वा संतर्प्य देवताः श्वश्रूश्वशुरयोः पादौ ववंदे चारुहासिनी
अथ प्रतस्थे परशुं गृहीत्वा सत्यवान्वनम् 4.102.
ततोऽवदत्स भर्ता तां पृच्छस्व श्वशुरौ निजौ
श्वशुराववदतां च न गंतव्यं त्वयानघे
भूयो भावेन सा प्रोचे द्रष्टव्यं काननं मया
ततो गृहीत्वा तरसा फलपुष्पसमित्कुशान्
अथ पाटयतः काष्ठं जाता शिरसि वेदना
विश्रमस्व महाबाहो सावित्री प्राह दुःखिता
यावदुत्संगके कृत्वा शिर आस्ते महीतले किरीटिनं पीतवस्त्रं साक्षात्सूर्यमिवोदितम्
तमुवाचाथ सावित्री प्रणम्य मधुपिंगलम्
क्षीणायुरेष ते भर्ता तं नयामि पतिव्रते 4.102.
एवमुक्त्वा सत्यवतः शरीरात्पाशसंचयैः अथ प्रयातुमारेभे पंथानं पितृसेवितम्
सावित्र्यपि वरारोहा पृष्ठतोऽ नुजगाम ह
निवर्त गच्छ सावित्रि स्वगृहे त्वमिहागता
भर्तारमनुगच्छंति यास्तासां न श्रमादयः
सतां संतो गतिर्नान्या स्त्रीणां भर्ता सदा गतिः
सर्वेषामेव जंतूनां स्थानमस्ति महीतलम्
एवमन्यैश्च विविधैर्वाक्यैर्द्धर्मार्थसंहितैः
तुष्टोऽस्मि तव भद्रं ते वरं वरय भामिनि
चक्षुःप्राप्तिस्तथा राज्यं श्वसु रस्य महात्मनः