सावित्रीत्येव नामास्याश्चक्रुर्विप्रास्तथा पिता सावित्री सुकुमाराङ्गी यौवनस्था बभूव ह
तां सुमध्यां पृथुश्रोणीं प्रतिमां काञ्चनीमिव 4.102.
सा तु पद्मपलाशाक्षी प्रज्वलंतीव तेजसा
अथोपोष्य शिरःस्नाता देवतामभिगम्य सा
तेभ्यः सुमनसः शेषाः प्रतिगृह्य नृपात्मजा
सोभिवाद्य पितुः पादौ शेषान्पूर्वं निवेद्य च
तां दृष्ट्वा यौवनं प्राप्तां स्वच्छां तां देवरूपिणीम्
युक्तः प्रदानकालोऽस्यास्तेन कश्चिद्वृणोत्विमाम्
देवादीनां यथा वाच्यो न लब्धेयं तथा कुरु
पितुर्गृहे तु या कन्या रजः पश्यत्यसंस्कृता
अतोर्थं प्रेषयामीति कुरु पुत्रि स्वयंवरम्
एवमस्त्विति सावित्री प्रोक्ता तस्माद्विनिर्ययौ 4.102.
मान्यानामत्र वृद्धानां कृत्वा पादाभिषेचनम्
आजगाम पुनर्वेश्म सावित्री सह मंत्रिभिः
आसीनमासने विप्रं प्रणम्य स्मितभाषिणी
द्युमत्सेन इति ख्यातो देवदत्तो बभूव सः
अहो बत महत्कष्टं सावित्र्या नृपतेः कृतम्
सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते
एको दोषोऽस्ति नान्योऽस्य सोऽद्यप्रभृति सत्यवाक्
नारदस्य वचः श्रुत्वा तनयां प्राह पार्थिवः संवत्सरेण सोल्पायुर्देहत्यागं करिष्यति
सकृत्प्रदीयते कन्या त्रीण्येतानि सकृत्सकृत्
दीर्घायुरथ वाल्पायुः सगुणो निर्गुणोऽपि वा 4.102.
मनसा निश्चयं कृत्वा ततो वाचाऽभिधीयते
अविघ्नमग्रे सावित्र्याः प्रदाने दुहितुस्तव
एवमुक्त्वा समुत्पत्य नारदस्त्रिदिवं गतः शुभे मुहूर्ते पार्श्वस्थैर्ब्राह्मणैर्वेदपारगैः
सावित्र्यपि वरं लब्ध्वा भर्तारं मनसेप्सितम्
एवं तत्राश्रमे तेषां वसतां प्रीतिपूर्वकम्
सावित्र्यास्तप्यमानायास्तिष्ठंत्याश्च दिवानिशम्
ततः काले बहुतिथे व्यतिक्रांते कदाचन प्रोष्ठपदे सिते पक्षे द्वादश्यां रजनीमुखे
गणयन्ती च सावित्री नारदोक्तं वचो हृदि