श्रीधरः श्रीपतिः श्रीमाञ्छ्रीशः संप्रीयतामिति गोसहस्रं दशगुणं प्राप्नोतीह न संशयः
तथैव कार्तिके मासि नवम्यां नक्तभुङ्नरः
उमासहायं वरदं नीलकंठमथार्चयेत्
धेनुं तिलमयीं दद्यात्पुराणो क्तविधानतः
यदत्र प्राप्यते पुण्यं पार्थ तत्केन वर्ण्यते
त्रयोदशी नभसि या कृष्णमस्यां समर्चयेत् भोजयेद्ब्राह्मणान्भक्त्या वेदवेदाङ्गपारगान्
पितॄनुद्दिश्य दातव्या सवत्सा कांस्यदोहनी
पिता पितामहश्चैव तथैव प्रपितामहः
कृतेनानेन राजेन्द्र यत्पुण्यं प्राप्यते नृभिः 4.101.
पुत्रान्पौत्रान्प्रपौत्रांश्च धनं च महदीप्सितम्
पञ्चदश्यां च माघस्य पूजयित्वा पितामहम्
नवनीतमयीं धेनुं फलैर्नानाविधैर्युताम् कीर्तयेत्प्रीयतामत्र पद्मयोनिः पितामहः
यत्स्वर्गे यच्च पाताले यच्च मर्त्ये सुदुर्लभम्
यानि चान्यानि दानानि दत्तानि सुबहून्यपि
अल्पमल्पं हि यः कश्चित्प्रदद्यान्निर्द्धनोपि सन्
वित्तानुसारं स्वं ज्ञात्वा वित्तवान्पार्थिवोपि वा
भूर्हिरण्यं गृहं वासः शयनान्यासनानि च
एवं दत्त्वा यथाशक्त्या भोजयित्वा द्विजानपि
यत्किञ्चिन्मानसं पापं कायिकं वाचिकं तथा 4.101.
उद्गीयमानो गन्धर्वैः स्तूयमानः सुरासुरैः
यद्दीयते किमपि कोटिगुणं तदाहुः स्नानं जपोनियममक्षयमेव सर्वम्
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे युगादितिथिव्रतमाहात्म्यवर्णनं नामैकाधिकशततमोऽध्यायः
वटसावित्रीव्रतवर्णनम् तत्सावित्रीव्रतं ब्रूहि ममोपरि दयां कुरु
यथा चीर्णं व्रतवरं सावित्र्या राजकन्यया
आसीन्मद्रेषु धर्मात्मा सर्वभूतहिते रतः
क्षमावांश्च क्षितिपतिः सत्यवांश्च जितेन्द्रियः
सावित्रीव्रतसिद्धं तत्सर्वकामप्रदायकम्
भूर्भुवःस्वरितीत्येषा साक्षान्मूर्तिमती स्थिता
उवाच दुहिता ह्येका तव राजन्भविष्यति
कालेन सा तथा राजन्दुहिता देवरूपिणी