यत्राण्वपि नरैर्द्दत्तं जप्तं वा सुमहद्भवेत्
श्रीकृष्ण उवाच शृणु पांडव ते वच्मि रहस्यं देवनिर्मितम्
वैशाखमासस्य तु या तृतीया नवम्यसौ कार्तिकशुक्लपक्षे
वैशाखस्य तृतीया तु समा कृतयुतेन तु
त्रयोदशी नभस्ये तु द्वापरेण समागता
एताश्चतस्रो राजेन्द्र युगानां प्रभवाद्यथा
उपवासस्तपो दानं जपहोमक्रियास्तथा
वैशाखस्य तृतीयायां श्रीसमेतं जगद्गुरुम् वस्त्रालंकारसंभारैनैवेद्यै र्विविधैस्तथा
ततस्तस्याग्रतो धेनुर्लवणस्याढकेन तु 4.101.
अविचर्मोपरि स्थाप्य कल्पयित्वा विधानतः
श्रीधरः श्रीपतिः श्रीमाञ्छ्रीशः संप्रीयतामिति गोसहस्रं दशगुणं प्राप्नोतीह न संशयः
तथैव कार्तिके मासि नवम्यां नक्तभुङ्नरः
उमासहायं वरदं नीलकंठमथार्चयेत्
धेनुं तिलमयीं दद्यात्पुराणो क्तविधानतः
यदत्र प्राप्यते पुण्यं पार्थ तत्केन वर्ण्यते
त्रयोदशी नभसि या कृष्णमस्यां समर्चयेत् भोजयेद्ब्राह्मणान्भक्त्या वेदवेदाङ्गपारगान्
पितॄनुद्दिश्य दातव्या सवत्सा कांस्यदोहनी
पिता पितामहश्चैव तथैव प्रपितामहः
कृतेनानेन राजेन्द्र यत्पुण्यं प्राप्यते नृभिः 4.101.
पुत्रान्पौत्रान्प्रपौत्रांश्च धनं च महदीप्सितम्
पञ्चदश्यां च माघस्य पूजयित्वा पितामहम्
नवनीतमयीं धेनुं फलैर्नानाविधैर्युताम् कीर्तयेत्प्रीयतामत्र पद्मयोनिः पितामहः
यत्स्वर्गे यच्च पाताले यच्च मर्त्ये सुदुर्लभम्
यानि चान्यानि दानानि दत्तानि सुबहून्यपि
अल्पमल्पं हि यः कश्चित्प्रदद्यान्निर्द्धनोपि सन्
वित्तानुसारं स्वं ज्ञात्वा वित्तवान्पार्थिवोपि वा
भूर्हिरण्यं गृहं वासः शयनान्यासनानि च
एवं दत्त्वा यथाशक्त्या भोजयित्वा द्विजानपि
यत्किञ्चिन्मानसं पापं कायिकं वाचिकं तथा 4.101.
उद्गीयमानो गन्धर्वैः स्तूयमानः सुरासुरैः