उपदेशं प्रयच्छेद्यस्तस्मै व्रतकृते नरः मासेमासे विधिरयं व्रतस्यास्य नराधिप
यो न शक्नोति वा कर्तुं पक्षं वाथ निरंतरम्
यश्चैतत्कुरुते पार्थ पौर्णमासीव्रतं नरः
पुत्रपौत्रधनोपेतो यज्वा दाता प्रियंवदः
ततश्चैवाक्षयाँल्लोकान्प्राप्नोति सुरसेवितान् आस्ते संपूर्णसर्वांगो यावत्कल्पायुतत्रयम्
अभ्यर्चयंति सितपञ्चदशीषु सोमं कृष्णासु ये पितृगणं जलपिंडदानैः
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विजयपौर्ण मासीव्रतवर्णनं नाम नवनवतितमोऽध्यायः
वैशाखीकार्त्तिकीमाघीव्रतवर्णनम् ता मे वद यदुश्रेष्ठ स्नाने दाने महाफलाः
स्नानदानविहीनैस्ता न नेयाः पांडुनन्दन
तीर्थस्नानं तदा शस्तं दानं वित्तानुरूपतः
कार्त्तिक्यां पुष्करारण्यं माघ्यां वाराणसी स्मृता
कुंभान्स्वछांभसः पूर्णान्सहिरण्यान्नसंयुतान्
मधुरान्नरसैः पूर्णान्भाजनान्कनकोज्ज्वलान्
माघ्यां मघासु च तथा संतर्प्य पितृदेवताः
कार्पासदानमत्रैव तिलदानं च शस्यते
उपानद्दानमत्रैव कथितं सर्वकामदम्
कलिकालोद्भवं सर्वं शस्यते पांडुनन्दन कार्यं कुरुकुलश्रेष्ठ हरेर्नीराजनं तथा ।। 4.100.
गजाश्वरथदानं च घृतधेन्वादयस्तथा
फलानि यानि विद्यंते सुगन्धिमधुराणि च
खर्जूरीं नालिकेरांश्च कदल्याश्च फलानि च
वृंताकान्कारवेल्लांश्च बिंबान्कूष्मांडकर्बुरान् ते व्याधिता दरिद्राश्च जायंते भुवि मानवाः
न केवलं ब्राह्मणानां दानं सर्वस्य शस्यते दरिद्राणां च बंधूनां दानं कोटिगुणोत्त रम्
मित्रं कुलीनश्चापन्नो वधुर्दारिद्र्यदुःखितः
वनं प्रस्थापिते रामे ससीते सह लक्ष्मणे सा सर्वेः श्रावितानेकैः कोशल्या भरतेन वै
यदा न प्रत्ययं याति कथंचित्कोशलात्मजा
वैशाखी कार्तिकी माघी तिथयोमरपूजिताः
एतच्छ्रुत्वा तु कौशल्या सहसा प्रत्ययं गता 4.100.
एतत्तिथीनां माहात्म्यमाख्यातं बहुविस्तरम्
वैशाखकार्तिकमघासहिताथ माघे या पूर्णिमा भवति पूर्णशशांकचिह्ना
युगादितिथिव्रतमाहात्म्यवर्णनम् कथ्यमानमिहेच्छामि शुभधर्मपदं महत्