सिनीवाली कुहूर्नाम तस्यां नष्टः क्षपाकरः
राकां चानुमतिं प्राप्य वृद्धिरस्य भविष्यति ब्राह्मणैर्हव्यकव्यानि देवेभ्यः प्रापयिष्यति
वृद्धिः कृष्णेन चैवास्य न च जातस्य भूयसी
अमोघस्य न मोघत्वं भविष्यति कदाचन
सुदर्शनस्य च प्रीतिरेवमेव भविष्यति
ब्रह्मा प्रोवाच सोमं तु विनीतवदुपस्थितम्
स तथोक्तः समानीय ददौ तारां बृहस्पतेः
अस्यां गर्भो मदीयोऽयं यदपत्यं ममैव तत्
क्षेत्रे मदीये चोत्पन्नस्तस्मात्स मम पुत्रकः 4.99.
उप्तं वाताहृतं बीजं यस्य क्षेत्रे प्ररोहति
सम्यगुक्तं न भवता शशांकः प्राह तत्त्ववित् इति पौराणिकाः प्राहुर्मुनयो नयचक्षुषः
विवदंतौ निवार्याथ ब्रह्मा प्रोवाच तां वधूम्
एवमुक्ता तु सा तारा ह्रिया नोवाच किंचन
तमुवाच ततो ब्रह्मा पुत्र कस्य सुतो भवान्
बुधोऽयं विबुधाः प्राहुः सर्वज्ञानविदां वरः
गुरुर्गृहीत्वा स्वां भार्यां जगाम भवनं शनैः
पौर्णमासी समाख्याता प्राप्तपूर्णमनोरथा
तस्मादेनामुपासिष्ये विधिना व्रततत्परः
यो मामक्यां तिथौ भक्त्या विधिवत्पूजयिष्यति 4.99.
एवमेषा तिथिः पार्थ सोमस्य दयिता शुभा
तदस्यां स्रोतसि स्नात्वा संतर्प्य पितृदेवताः
पूजयेत्कुसुमैर्हृद्यैर्नैवेद्यैर्घृतपाचितैः शाकाहरणमुन्यन्नैर्नक्तं भुञ्जीत वाग्यतः
वसंतबांधव विधो शीतांशो स्वस्ति नः कुरु
पक्षेपक्षे पौर्णमास्यां विधिरेष प्रकीर्तितः
तस्याप्येष विधिः प्रोक्तः सर्वसौख्यप्रदायकः अस्यां दत्तं तपस्तप्तं पितॄणामक्षयं भवेत्
अमावास्या महाराज प्रयत्नैर्यैरुपोषिता
यः कश्चित्कुरुते तस्मिन्पितृपिण्डोदकक्रियाम्
भवेयुरक्षयास्तस्य लोकाः पितृनिषेविताः
ब्राह्मणः पितृभक्तश्च सर्वविद्याविशारदः 4.99.
एवं संवत्सरस्यांते हैमं कृत्वा सुशोभनम्