अन्ते सान्निध्यमासाद्य मोदन्ते ते मया सह
इत्युक्त्वान्तर्दधे विष्णुर्विप्रोपि सुखमाप्तवान्
अद्य भैक्ष्येण लभ्येन पूज्यो नारायणो मया
विना देहीति वचनं लब्धा च विपुलं धनम्
वृत्तांतं सर्वमाचख्यौ ब्राह्मणी सान्वमोदत
आहूय बन्धुमित्राणि तथा सान्निध्यवर्तिनः
भक्त्या तुतोष भगवान्सत्यनारायणः स्वयम्
वव्रे विप्रोऽभिलषितमिहामुत्र सुखप्रदम् 3.2.25.
रथं कुञ्जरं मंजुलं मन्दिरं च हयं चारु चामी करालं कृतं च
तथास्त्विति हरिः प्राह ततश्चांतर्दधे प्रभुः
प्रणम्य भुवि कायेन प्रसादं प्रापुरादरात्
प्रचचार ततो लोके सत्यनारायणार्चनम्
चन्द्रचूड इति ख्यातः प्रजापालनतत्परः
शांतो मधुरवाग्धीरो नारायणपरायणः
तस्य तैरवभवद्युद्धमतिप्रबलदारुणैः
चन्द्रचूडस्य महती सेना यमपुरे गता
पत्तयः पंचसाहस्रा मृताः स्वर्गपुरं ययुः
आक्रांतः स महाभागस्तैर्म्लेच्छैर्दंभयोधिभिः
तीर्थव्याजेन स नृपः पुरीं काशीं समागतः
ददर्श नगरीं चैव धनधान्यसमन्विताम्
विस्मितश्चंद्रचूडश्च दृष्ट्वाश्चर्यमनुत्तमम्
दृष्ट्वा श्रुत्वा सदानंदं सत्यदेवप्रपूजकम् 3.2.26.
द्विजराज नमस्तुभ्यं सदानंद महामते
यथा प्रसन्नो भगवाँल्लक्ष्मीकान्तो जनार्दनः
सौभाग्यसंततिकरं सर्वत्र विजयप्रदम्
सत्यनारायणव्रतं श्रीपतेस्तुष्टिकारकम्
तोरणादि प्रकर्तव्यं कदलीस्तंभमंडितम्
तन्मध्ये वेदिकां रम्यां कारयेत्स व्रती द्विजैः
कुर्याद्गंधादिभिः पूजां प्रेमभक्तिसमन्वितः
इति श्रुत्वा स नृपतिः काश्यां देवमपूजयत्