स जित्वा देवगन्धर्वान्सोमो राजन्यसत्तम
देवाश्च निर्जितास्तेन सोमेनामिततेजसा
इन्द्रः सर्वं समाचख्यौ सोमस्येदृग्विचेष्टितम् गृहीत्वा चायुधं श्रेष्ठं युद्धायैव मनो दधे
प्रकर्तुं सुमहद्युद्धं चक्रशार्ङ्गगदा धरः
विष्णुं विदित्वा संप्राप्तं सोमो दैत्यगणैः सह
स जित्वा देवसंघातं सेंद्रं वायुपुरस्सरम्
यदा नासावुपरमेद्युद्धाय सह विष्णुना
अथाह ब्रह्मा देवेशमजितं विष्णुमव्ययम्
नास्ति वध्यं त्रिभुवने चक्रस्यास्य तवानघ 4.99.
तस्माद्यद्युज्यते देवकार्येऽस्मिंस्तद्विधीयताम्
सिनीवाली कुहूर्नाम तस्यां नष्टः क्षपाकरः
राकां चानुमतिं प्राप्य वृद्धिरस्य भविष्यति ब्राह्मणैर्हव्यकव्यानि देवेभ्यः प्रापयिष्यति
वृद्धिः कृष्णेन चैवास्य न च जातस्य भूयसी
अमोघस्य न मोघत्वं भविष्यति कदाचन
सुदर्शनस्य च प्रीतिरेवमेव भविष्यति
ब्रह्मा प्रोवाच सोमं तु विनीतवदुपस्थितम्
स तथोक्तः समानीय ददौ तारां बृहस्पतेः
अस्यां गर्भो मदीयोऽयं यदपत्यं ममैव तत्
क्षेत्रे मदीये चोत्पन्नस्तस्मात्स मम पुत्रकः 4.99.
उप्तं वाताहृतं बीजं यस्य क्षेत्रे प्ररोहति
सम्यगुक्तं न भवता शशांकः प्राह तत्त्ववित् इति पौराणिकाः प्राहुर्मुनयो नयचक्षुषः
विवदंतौ निवार्याथ ब्रह्मा प्रोवाच तां वधूम्
एवमुक्ता तु सा तारा ह्रिया नोवाच किंचन
तमुवाच ततो ब्रह्मा पुत्र कस्य सुतो भवान्
बुधोऽयं विबुधाः प्राहुः सर्वज्ञानविदां वरः
गुरुर्गृहीत्वा स्वां भार्यां जगाम भवनं शनैः
पौर्णमासी समाख्याता प्राप्तपूर्णमनोरथा
तस्मादेनामुपासिष्ये विधिना व्रततत्परः
यो मामक्यां तिथौ भक्त्या विधिवत्पूजयिष्यति 4.99.
एवमेषा तिथिः पार्थ सोमस्य दयिता शुभा