पौर्णमास्यां च संजातः संग्रामो जयलक्षणः
तारायां चन्द्रमाः सक्तस्तस्या भर्ता बृहस्पतिः
तारा कस्य सुता कस्मात्स क्रुद्धः ससुरारिहा
तां बृहस्पतये प्रादात्पृथिव्यामेकसुंदरीम्
देवाचार्याय सा भार्या त्वनिर्देश्या तथाविधा
बृहस्पतिं पर्यचरद्यथा चान्याः स्त्रियः क्वचित्
शीतांशुर्दर्शनादेव कामस्य वशमीयिवान्
इंगिताकारकुशला तारा सोमस्य चेष्टितम्
मुनेरंगिरसः पुत्रस्त्वं च सौम्योऽसि सोमराट् सह सौम्येन यो योगस्तव सिद्धोऽ द्भुतो महान् ।। 4.99.
अंगिरास्त्वां किल पुरा ससुरासुरराक्षसैः
कथमद्य निशानाथ ह्यनंगेनासि पीडितः परवत्यस्मि भद्रं ते न गम्यास्मि बुधोत्तम
एवमुक्तस्तथा चासौ न चैतत्कृतवांस्ततः
बृहस्पतिस्तु तां ज्ञात्वा स तं सोममगर्हयत्
एवं चिरेण विज्ञाय बृहस्पतिरुदारधीः
आचख्यौ सर्वमिन्द्राय सोमस्येदं विचेष्टितम्
न सोमो गणयामास ततोऽबुध्यत देवराट्
तच्छ्रुत्वा देवगंधर्वाः क्रोधान्धाः क्षुब्धमानसाः
सोमोऽपि देवान्सोद्योगाञ्ज्ञात्वा सुकृतनिश्चयान्
आरुह्य च रथश्रेष्ठं युद्धायैव मनो दधे 4.99.
कौणपैः क्ष्मासुरैः शूलैर्देवदानवदारणम् । बभंज देवान्सेन्द्रांश्च हेमवृष्ट्या क्षपाकरः
स जित्वा देवगन्धर्वान्सोमो राजन्यसत्तम
देवाश्च निर्जितास्तेन सोमेनामिततेजसा
इन्द्रः सर्वं समाचख्यौ सोमस्येदृग्विचेष्टितम् गृहीत्वा चायुधं श्रेष्ठं युद्धायैव मनो दधे
प्रकर्तुं सुमहद्युद्धं चक्रशार्ङ्गगदा धरः
विष्णुं विदित्वा संप्राप्तं सोमो दैत्यगणैः सह
स जित्वा देवसंघातं सेंद्रं वायुपुरस्सरम्
यदा नासावुपरमेद्युद्धाय सह विष्णुना
अथाह ब्रह्मा देवेशमजितं विष्णुमव्ययम्
नास्ति वध्यं त्रिभुवने चक्रस्यास्य तवानघ 4.99.
तस्माद्यद्युज्यते देवकार्येऽस्मिंस्तद्विधीयताम्