भवत्यमरवल्लभः पठति यः स्मरेद्वा सदा शृणोत्यपि विमत्सरः सकलपापनिर्मोचनीम्
या पार्थ नारी कुरुतेऽतिभक्त्या भर्त्तारमापृच्छ्य शुभं गुरुं वा
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवाद शिवचतुर्दशीव्रतवर्णनं नाम सप्तनवतितमोऽध्यायः
फलत्यागचतुर्दशीव्रतवर्णनम् यदक्षयं परे लोके सर्वकामफलप्रदम्
मार्गशीर्षे शुभे मासि चतुर्दश्यां धृतव्रतः
अन्येष्वपि तु मासेषु अष्टम्यां नरसत्तम
अष्टादशानां धान्यानामन्यत्र फलमूलकम्
ततः संवत्सरस्यांते चतुर्दश्यष्टमीषु च
सौवर्णं कारयेद्रुद्रं धर्मराजं तथैव च
आम्राम्रातकपित्थं च कलिंगं सेर्ववारुकम्?
बदरं दाडिमं शक्त्या कार्याण्येतानि षोडश
उदुंबरं नालिकेरं द्राक्षा च बृहतीद्वयम्
रौप्याणि कारयेच्छक्त्या फलानीमानि षोडश 4.98.
पिंडीरकं च खर्जूरं तथा सूरण कंदकम्
चित्रावल्लीफलं तद्वत्कूटशाल्मलिकाफलम्
कारयेच्छक्तितो धीमान्फलान्येतानि षोडश पक्षपात्रद्वयोपेतं यमरुद्रसमन्वितम्
धेन्वा सहैव शांताय विप्रायाथ कुटुंबिने
यथा फलेषु सर्वेषु वसंत्यमरकोटयः
यथा शिवश्च धर्मश्च सदानन्तफलप्रदौ
यथा फलानां कामस्य शिवभक्तस्य सर्वदा
यथा भेदं न पश्यामि शिवविष्ण्वर्कपद्मजाम्
इत्युच्चार्य च तत्सर्वमलंकृत्य विभूषणैः अशक्तस्तु फलान्येव यथोक्तानि विधानतः
तथोदकुंभसहितौ शिवधर्मौ च कांचनौ अन्यानपि यथा शक्त्या भोजयेद्द्विजपुङ्गवान् ।। 4.98.
न शक्नोति विहातुं चेत्सर्वाण्यपि फलान्युत
एतत्त्यागव्रतानां तु गवे वैष्णवयोगिनाम् नारीभिश्च यथाशक्त्या कर्तव्यं राजसत्तम
नैतस्मादपरं किञ्चिदिह लोके परत्र च
सौवर्णरौप्यताम्रेषु यावंतः परमाणवः तावद्युगसहस्राणि रुद्रलोके महीयते
एतत्समस्तकलुषापहरं जनानामाजीवनाय मनुजेश्वर सर्वदा स्यात्
यो वा शृणोति पुरुषोल्पधनो नरो वा यो ब्राह्मणस्तु भवनेषु च धार्मिकाणाम्
पौर्णमासीव्रतवर्णनम् पूर्णमासो भवेद्यस्यां पौर्णमासी ततः स्मृता