मार्गशीर्षत्रयोदश्यां सितायामेकभुङ्नरः
चतुर्दश्यां निराहारः समभ्यर्च्य महेश्वरम्
एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः पूजयेत्कुसुमैः शुक्लैर्गंधधूपानुलेपनैः
पादौ नमः शिवायेति शिरः सर्वात्मने नमः
मुखमिन्दुमुखायेति तथेशानाय चोदरम्
ऊरू चानन्त्यवैराग्यं जानुनी चार्चयेद्बुधः
व्योमव्योमात्मरूपाय पृष्ठमभ्यर्चयेन्नरः
ततश्च वृषभं हैममुदकुम्भसमन्वितम्
भक्ष्यैर्नानाविधैर्युक्तं ब्राह्मणाय निवेदयेत् 4.97.
पृषदाज्यं च संप्राश्य स्वप्याद्भूमावुदङ्मुखः
तर्पयित्वा ततोन्नेन ब्राह्मणाञ्छक्तितः शुभान्
ततः कृष्णचतुर्दश्यामेतत्सर्वं समाचरेत्
ये च मासे विशेषाः स्युस्तान्निबोध क्रमादिह
शंकराय नमस्तुभ्यं नमस्ते करवीरक
नमस्तेऽस्तु महादेव स्थाणवे च ततः परम्
नमस्ते परमानंद नमः सोमार्द्धधारिणे
गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम्
तिलांश्च कृष्णान्विधिवत्प्राश्नीयात्समुदाहृतान्
मंदारैर्मालतीभिश्च तथा धत्तूकैरपि 4.97.
अर्कपुष्पैः कदंबैश्च शतपत्रैस्तथोत्पलैः
एकैकेन चतुर्दश्यामर्चयेत्पार्वतीपतिम्
अन्नैर्नानाविधैर्भक्ष्यैर्वस्त्रैर्माल्यविभूषणैः
उमामहेश्वरं हैमं वृषभं च गवा सह
सर्वोपस्करयुक्तायां शय्यायां विनिवेदयेत्
स्थाप्य विप्राय शांताय वेदव्रतपराय च
अव्यंगाय च सौम्याय सदाकल्याणकारिणे न वित्तशाठ्यं कुर्वीत कुर्वंल्लोभात्पतत्यधः
अनेन विधिना यस्तु कुर्याच्छिवचतुर्दशीम्
ब्रह्महत्यादिकं पापं यदत्रामुत्र वा कृतम्
दीर्घायुरारोग्यकुलाभिवृद्धिरत्राक्षयान्यत्र चतुर्भुजत्वम् 4.97.
न बृहस्पतिरप्यत्मन्नरस्य फलमिंद्रो न पितामहोऽपि वक्तुम्