पितुस्तुल्यं कृतं राज्यं प्रचिन्वांस्तत्सुतोऽभवत्
पितुस्तुल्यं कृतं राज्यं नभस्यस्तनयोऽभवत्
पितुस्तुल्यं कृतं राज्यं सुद्युम्नस्तनयोऽभवत्
पितुस्तुल्यं कृतं राज्यं संयातिस्तनयोऽभवत्
पितुस्तुल्यं कृतं राज्यमैन्द्राश्वस्तनयोऽभवत्
पितुस्तुल्यं कृतं राज्यं तत्पुत्रः सुतपाः स्मृतः
हिमालयगिरौ प्राप्ते तपः कर्तुं मनो दधत्
संवरणाय ददौ तुष्टो रविलोकं नृपो गतः
चत्वारः सागरा वृद्धा भारतं क्षयतां गतम्
महावायुप्रभावेन सागराः शुष्कतां गताः 3.1.2.
पञ्चवर्षांतरे भूमिर्वृक्षदूर्वादिसंयुता
वशिष्ठेन त्रिवर्णैश्च मुख्यैः सार्द्धं समागतः
द्वापरनृपोपाख्यानवर्णनम् लोमहर्षण मे ब्रूहि द्वापरस्य नृपांस्तथा
संवर्णो मुनिभिः सार्द्धं प्रतिष्ठाने समागतः
प्रतिष्ठानं कृतं रम्यं पञ्चयोजनमायतम्
यदुवंशे सात्वतश्च मधुराभूपतिः कृतः
म्लेच्छवंशे श्मश्रुपालो मरुदेशस्य भूपतिः
दशवर्षसहस्राणि संवर्णो भूपतिः स्मृतः
तस्य पुत्रः सूरिजापी पितुरर्द्धं च राज्यकृत्
शतहीनं कृतं राज्यं तस्मादातिथ्यवर्धनः
शतहीनं कृत राज्यं तस्माज्जातो दिवाकरः
शतहीनं कृतं राज्यं विवस्वज्ज्ञस्तदात्मजः ।। 3.1.3.
शतहीनं कृतं राज्यं हरिदश्वार्चनस्ततः
शतहीनं कृतं राज्यं स्तस्मादर्केष्टिमान्सुतः
शतहीनं कृतं राज्यं मिहिरार्थस्तु तत्सुतः
शतहीनं कृतं राज्यं तस्माद्द्युमणिवत्सलः
शतहीनं कृतं राज्यं तस्मान्मैत्रेष्टिवर्धनः ।।'
शतहीनं कृतं राज्यं तस्माद्वैरोचनः स्मृतः
पितुस्तुल्यं कृतं राज्यं तस्माद्वेदप्रवर्धनः
शतहीनं कृतं राज्यं धनपालस्ततोऽभवत्