यजमानोऽपि यातासु यथेष्टं काममाचरेत्
तस्य काले तु संप्राप्ते सुखं मृत्युः प्रजायते
पुत्रपौत्रसमृद्ध्यादौ भुक्त्वा मर्त्यसुखानि च
स्त्रीणां तुल्यं स हीनोऽपि व्रती व्रतफलं व्रजेत्
तदेकेनापि लभते पार्थ श्रावणिकाव्रते
श्रीकृष्णयुधिष्ठिरसंवादवर्णनम् येन विज्ञातमात्रेण नरो मोक्षमवाप्नुयात्
येषु तेषु च मासेषु शुक्लपक्षे चतुर्दशीम्
मासिमासि भवंति द्वावष्टम्यौ च चतुर्दशी वसुधाभाजनं कृत्वा भुञ्जीयान्नक्तभोजनम्
उपवासात्परं भैक्ष्यं भैक्ष्यात्परमयाचितम्
देवैश्च भुक्तं पूर्वाह्णे मध्याह्ने मुनिभिस्तथा
सर्वलोकानतिक्रम्य नक्तभोजी सदा भवेत्
अग्निकार्यो ह्यधःशय्यो नक्तभोजी सदा भवेत् पूर्णकुम्भोपरिस्थाप्य पूजयेच्च सुशोभने
कपिलापञ्चगव्येन स्थापयेन्मृन्मयं शिवम्
तत्कुम्भानां जलोन्मिश्रमर्घमष्टांगमुच्यते
महादेवाय दातव्यं गन्धपुष्पं यथाक्रमम् 4.96.
धेनुं वा दक्षिणां दद्याद्वृषं वापि धुरंधरम् यो ददाति शिवे भक्त्या तस्य पुण्यफलं शृणु
विमानमर्कप्रतिमं हंसयुक्तमलंकृतम्
स्थित्वा रुद्रस्य भवने वर्षकोटिशतत्रयम्
यश्चाष्टमीषु च शिवासु चतुर्दशीषु नक्तं समाचरति शास्त्रविधान दृष्टम्
शिवचतुर्दशीव्रतवर्णनम् त्रिषु लोकेषु विख्यातं नाम्ना शिवचतुर्दशी
मार्गशीर्षत्रयोदश्यां सितायामेकभुङ्नरः
चतुर्दश्यां निराहारः समभ्यर्च्य महेश्वरम्
एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः पूजयेत्कुसुमैः शुक्लैर्गंधधूपानुलेपनैः
पादौ नमः शिवायेति शिरः सर्वात्मने नमः
मुखमिन्दुमुखायेति तथेशानाय चोदरम्
ऊरू चानन्त्यवैराग्यं जानुनी चार्चयेद्बुधः
व्योमव्योमात्मरूपाय पृष्ठमभ्यर्चयेन्नरः
ततश्च वृषभं हैममुदकुम्भसमन्वितम्
भक्ष्यैर्नानाविधैर्युक्तं ब्राह्मणाय निवेदयेत् 4.97.
पृषदाज्यं च संप्राश्य स्वप्याद्भूमावुदङ्मुखः