फेनं लालाविलाद्वक्त्रादुद्गिरंती मुहुर्मुहुः
ततः षोडशके प्राप्ते दिने स्वयमरुंधती नहुषाय समाचख्यौ यदुक्तं श्रावणी व्रते
तच्छुत्वा नहुषो राजा द्रुतं भोज्यं प्रचक्रमे
दत्वा च करकानष्टौ तामुद्दिश्य जयश्रियम्
जगाम शक्रलोकं सा विमानेनार्कवर्चसा
द्रव्यप्राप्तिश्च भक्तिश्च दानकाले प्रशस्यते
भुक्त्वा यज्ञे चतुर्दश्यामष्टम्यां वा युधिष्ठिर
आमंत्रयेद्दशैकैका नारीर्गौरीस्वरूपिणीः
द्वादश ब्राह्मणांस्तत्र वेदवेदांगपारगान् 4.95.
सर्वं दद्याद्विधानेन पादक्षालनपूर्वकम्
ग्रीवासूत्रकसिंदूरकुंकुमेन च भूषयेत्
अच्छिद्रा जलपूर्णास्तु सुवृत्ताः सूत्रवेष्टिताः
चंदनेन समालब्धाः सहिरण्याः पृथक्पृथक्
स्थित्वा मण्डलके मध्ये यजमानः स्वयं तदा तत्सर्वं नाशमायातु पितृदेवर्षिणां नृणाम्
इमा मे समयं स्वर्णं तारयस्व भवार्णवात् एवमस्त्विति ता ब्रूयुः स्त्रियः सर्वा युधिष्ठिर
ततो ब्राह्मणमाहूय यजमान इदं वदेत्
उत्तीर्य श्रावणं मासं समुत्तारय सांप्रतम्
उपोष्य शिरसो देव्याः समुत्तीर्य रुहद्रुमान् ततो गच्छ महादेवं श्रवणे श्रवणोत्तमे
इति वर्धनिकोत्तारणमन्त्रः 4.95.
तां वर्द्धनिकामेकान्ते विप्राय प्रतिपादयेत्
यजमानोऽपि यातासु यथेष्टं काममाचरेत्
तस्य काले तु संप्राप्ते सुखं मृत्युः प्रजायते
पुत्रपौत्रसमृद्ध्यादौ भुक्त्वा मर्त्यसुखानि च
स्त्रीणां तुल्यं स हीनोऽपि व्रती व्रतफलं व्रजेत्
तदेकेनापि लभते पार्थ श्रावणिकाव्रते
श्रीकृष्णयुधिष्ठिरसंवादवर्णनम् येन विज्ञातमात्रेण नरो मोक्षमवाप्नुयात्
येषु तेषु च मासेषु शुक्लपक्षे चतुर्दशीम्
मासिमासि भवंति द्वावष्टम्यौ च चतुर्दशी वसुधाभाजनं कृत्वा भुञ्जीयान्नक्तभोजनम्
उपवासात्परं भैक्ष्यं भैक्ष्यात्परमयाचितम्
देवैश्च भुक्तं पूर्वाह्णे मध्याह्ने मुनिभिस्तथा