ब्रह्मणा प्रथमं सृष्टा नियोगश्च जने कृतः
यो यद्वदति लोकेस्मिञ्छुभं वाप्यथ वाऽशुभम्
जातास्त्रिलोके पूज्यास्तु नियमेन प्रजापते
तासामस्तीह सा शक्तिरचिन्त्या तर्कहेतुभिः
तच्छृण्वंति यतः पार्थ नैका श्रावणिका मताः
यथा हि सिद्धगंधर्वा नागाः किंपुरुषाः खगाः तथैताः पुण्यनामानो वंद्याः श्रावणिकाः स्मृताः
ता समुद्दिश्य कर्तव्यस्तं नारीनरैरिह
आघ्राय धूपं पक्वान्नं जलं चागन्ध मेव च
अदत्त्वा यदि मृत्युः स्यादंतरालेपि पांडव सफेनिलैर्मुखै रौद्रैर्भ्रियंते नीचदुःखिताः ।। 4.95.
श्रूयंते हि पुरा पार्थ पृथिव्यां नहुषो नृपः
प्रत्यक्षरूपसंपन्ना दर्शनीयतरा शुभा
शब्दगद्गदसंभाषा मत्तमातंगगामिनी
सा कदाचिद्गता स्नातुं गंगायां चाश्रमे मुनेः
भोजयंती मुनीनां तु पत्नीर्नानान्नभोजनैः
पूज्यं भगवति ब्रूहि किमेतद्व्रतमुच्यते
अरुन्धत्युवाच जयश्रिये शृणुष्व त्वं नाम्ना श्रावणिकाव्रतम्
गूढं बह्मर्षिसर्वस्वं सुपतिव्रतकं शुभम्
एवमुक्ता जयश्रीस्तु भोज्ये तस्मिन्यदृच्छया
भुक्त्वाचम्य जगामाथ स्वपुरं परमेश्वरम् 4.95.
ततस्तु समये पूर्णे म्रियमाणा महासती
फेनं लालाविलाद्वक्त्रादुद्गिरंती मुहुर्मुहुः
ततः षोडशके प्राप्ते दिने स्वयमरुंधती नहुषाय समाचख्यौ यदुक्तं श्रावणी व्रते
तच्छुत्वा नहुषो राजा द्रुतं भोज्यं प्रचक्रमे
दत्वा च करकानष्टौ तामुद्दिश्य जयश्रियम्
जगाम शक्रलोकं सा विमानेनार्कवर्चसा
द्रव्यप्राप्तिश्च भक्तिश्च दानकाले प्रशस्यते
भुक्त्वा यज्ञे चतुर्दश्यामष्टम्यां वा युधिष्ठिर
आमंत्रयेद्दशैकैका नारीर्गौरीस्वरूपिणीः
द्वादश ब्राह्मणांस्तत्र वेदवेदांगपारगान् 4.95.
सर्वं दद्याद्विधानेन पादक्षालनपूर्वकम्