तत्रापश्यन्महावृक्षं फलितं पुष्पितं तथा तद्ब्रूहि सोप्युवाचेदं नानंतं वेद्म्यहं द्विज
एवं निरीक्षितस्तेन गां ददर्श सवत्सकाम्
सोब्रवीद्धेनुके ब्रूहि यद्यनंतस्त्वयेक्षितः
ततो जगामाथ वने गोवृषं शाद्वले स्थितम्
गोवृषस्तमुवाचाथ नानन्तो वीक्षितो मया
अन्योन्यजलकल्लोलवीचिभिः परिशोभितम्
सेवितं भ्रमरैर्हंसैश्चक्रैः कारंडवैर्बकैः
ऊचतुः पुष्करिण्यौ तं नानंतं विद्वहे द्विज
तावप्युक्तौ सुमंतेन तस्यापि विनिवेदितम्
तस्मिन्क्षणे मुनिवरे कौंडिन्ये ब्राह्मणोत्तमे
वृद्धब्राह्मणरूपेण इत एहीत्युवाच तम्
तां पुरीं दर्शयामास दिव्यनारीनरैर्युताम्
पार्श्वस्थशंखचक्रासिगदागरुडशोभितम्
विभूतिभेदैश्चानन्तमनन्तं परमेश्वरम्
पापोहं पापकर्माहं पापात्मा पापसम्भवः
अद्य मे सफलं जन्म जीवितं च सुजीवितम् गर्दभं कुञ्जरं चैव देव मे ब्रूहि तत्त्वतः
विद्यादानं नोपकुर्वञ्छिष्येभ्यस्तरुतां गतः
सा गौर्वसुन्धरा दृष्टा निष्फला या त्वयेक्षिता
धर्माधर्मव्यवस्थानं तच्च पुष्करिणीद्वयम् ब्राह्मणोसावनंतोहं गुहासंसारगह्वरे
इत्युक्तं ते मया सर्वं विप्र गच्छ पुनर्गृहम्
चरानंतव्रतं तत्त्वं नव वर्षाणि पंच च
भुक्त्वा च विपुलान्भोगान्सर्वान्कामान्यथेप्सितान्
इति दत्त्वा वरं देवस्तत्रैवांतर्हितोऽभवत्
शीलया सह धर्मात्मा भुक्त्वा भोगान्मनोरमान् कल्पस्थानी च संभूतो दृश्यतेद्यापि स ज्वलन्
एतत्ते कथितं पार्थ व्रतानामुत्तमं व्रतम्
ये च शृण्वंति सततं वाच्यमानं नरोत्तम
संसारसागरगुहां सुसुखं विहर्तुं वांछंति ये कुरुकुलोद्भव शुद्धसत्त्वाः
इति श्रीभविष्ये महाऽपुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादेऽअनंतचतुर्दशीव्रतवर्णनं नाम चतुर्नवतितमोऽध्यायः
अनन्त उवाच । तुष्टोऽहं ब्राह्मणश्रेष्ठ भक्त्या तव विशेषतः । वरं गृहाण विप्रेन्द्र तुष्टोऽस्मि त्यज विस्मयं ।। । कौण्डिन्य उवाच । स्वकर्म्मफलभोगेन यां यां योनिं व्रजाम्यहं । तस्यां तस्यां हृषीकेश हरिभक्तिर्दृढास्तु मे ।। अतिप्रमादान्मोहाद्वा यन्मया दुष्कृतं कृतं । तदागः क्षम्यतां नाथ प्रणमामि पुनः पुनः ।। श्रुत्वानन्तस्तु तद्वाक्यं ददौ तस्मै वरत्रयं । दारिद्रनाशनं धर्म्मं विष्णुलोकं तथाक्षयं
श्रवणिकाव्रतम् एताः काः किं च कुर्वंति धर्मं चासां ब्रवीहि मे