चतुर्दश्यामर्चयन्तं भक्त्या देवं पृथक्पृथक्
नार्यः किमेतन्मे ब्रूत किंनाम व्रतमीदृशम्
साब्रवीदहमप्येवं करिष्ये व्रतमुत्तमम्
अर्द्धं विप्राय दातव्यमर्द्धमात्मनि भोजनम्
कर्तव्यं तु सरित्तीरे कथां श्रुत्वा हरेरिमाम्
धूपैः पुष्पैः सनैवेद्यैः पीतालक्तैश्चतुःशतैः
चतुर्दशग्रंथियुतं वामे स्त्री दक्षिणे पुमान्
अनंत संसारमहासमुद्रे मग्नान्समभ्युद्धर वासुदेव
अनेन दोरकं बद्ध्वा भोक्तव्यं स्वस्थमानसैः
भुक्त्वा चांते व्रजेद्वेश्म हीदं प्रोक्तं व्रतं तव
भर्ता तस्याः समागत्य तां ददर्श महाधनाम्
पुनर्जगाम सा हृष्टा गोरथेन स्वमाश्रमम् तेनानंतप्रभावेण शुभगोधनसंकुलः
गृहाश्रमः श्रिया युक्तो धनधान्यसमायुतः
सापि माणिक्यकाञ्चीभिर्मुक्ताहारविभूषिता
कदाचिदुपविष्टेन दृष्टं बद्धं सुदोरकम्
तेन कर्मविपाकेण तस्य सा श्रीः क्षयं गता
यद्यदेवागतं गेहे तत्र तत्रैव नश्यति
अनंताक्षेपदोषेण दारिद्र्यं पतितं गृहे
ततो जगाम कौंडिन्यो निर्वेदाद्वनगह्वरम्
व्रतं निरशनं गृह्य ब्रह्मचर्यं जपन्हरिम्
तत्रापश्यन्महावृक्षं फलितं पुष्पितं तथा तद्ब्रूहि सोप्युवाचेदं नानंतं वेद्म्यहं द्विज
एवं निरीक्षितस्तेन गां ददर्श सवत्सकाम्
सोब्रवीद्धेनुके ब्रूहि यद्यनंतस्त्वयेक्षितः
ततो जगामाथ वने गोवृषं शाद्वले स्थितम्
गोवृषस्तमुवाचाथ नानन्तो वीक्षितो मया
अन्योन्यजलकल्लोलवीचिभिः परिशोभितम्
सेवितं भ्रमरैर्हंसैश्चक्रैः कारंडवैर्बकैः
ऊचतुः पुष्करिण्यौ तं नानंतं विद्वहे द्विज
तावप्युक्तौ सुमंतेन तस्यापि विनिवेदितम्
तस्मिन्क्षणे मुनिवरे कौंडिन्ये ब्राह्मणोत्तमे