दिव्यनारीगणवृतो विमानवरमास्थितः
इह चागत्य कालांते जातः स च नृपो भवेत्
श्रीमान्वाग्मी कृती धीमान्पुत्रपौत्रसमन्वितः
ये दुर्ल्लभा भुवि सुरोरगमानवानां कामा ह्यनुत्तमगुणेन युताः सदैव
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृ्ष्णयुधिष्ठिरसंवादे आग्नेयीचतुर्दशीव्रतवर्णनं नाम त्रिनवतितमोऽध्यायः
सर्वकामप्रदं नृणां स्त्रीणां चैव युधिष्ठिर
शुक्लपक्षे चतुर्दश्यां मासि भाद्रपदे शुभे
किं शेषनाग आहोस्विदनंतस्तक्षकः स्मृतः
परमात्माथ वानंत उताहो ब्रह्म उच्यते
आदित्यादिषु वारेषु यः काल उपपद्यते
कलाकाष्ठामुहूर्तादि दिनरात्रिशरीरवान्
योऽयं कालो मयाख्यातस्तव धर्मभृतां वर
दानवानां विनाशाय वसुदेवकुलोद्भवम्
ब्रह्माणं भास्करं शेषं सर्वव्यापिनमीश्वरम्
प्रत्ययार्थं मयाख्यातं सोऽहं पार्थ न संशयः युधिष्ठिर उवाच अनन्तव्रतमाहात्म्यविधिं वद विदां वर
किं पुण्यं किं फलं चास्य ह्यनुष्ठानवतां नृणाम्
एवं समस्तं विस्तार्य ब्रूह्यनंतव्रतं हरे श्रीकृष्ण उवाच आसीत्पुरा कृतयुगे सुमंतो नाम वै द्विजः
वशिष्ठगोत्रे चोत्पन्नः सुरूपश्च भृगोः सुताम्
तस्याः कालेन संजाता दुहितानंतलक्षणा
माता च तस्याः कालेन हरदाहेन पीडिता
सुमंतोपि ततोन्यां वै धर्मपुंसः सुतां पुनः
दुःशीलां कर्कशां चंडीं नित्यं कलहकारिणीम्
कुड्यस्तंभतुलाधारदेहलीतोरणादिषु
स्वस्तिकैः शंखपद्मैश्च अर्चयन्ती पुनःपुनः
कस्मै देया मया शीला विचार्यैवं सुदुःखितः
स्मृत्युक्तशास्त्रविधिना विवाहमकरोत्तदा
किञ्चिदायादिकं देयं जामातुः पारितोषिकम्
कपाटे सुस्थिरं कृत्वा गम्यतामित्युवाच ह
कौंडिन्योपि विवाह्यैनां पथि गच्छञ्छनैःशनैः
मध्याह्ने भोज्यवेलायां समुत्तीर्य सरित्तटे