यस्यां मनोरथं यंयं समुद्दिश्य ह्युपोषति
चतुर्दश्यां निराहारः समभ्यर्च्य त्रिलोचनम् पञ्चगव्यं निशि प्राश्य स्वप्याद्भूमौ विमत्सरः
श्यामाकमथ वा भुक्त्वा तैलक्षारविवर्जितम्
अग्नये हव्यवाहनाय सोमायांगिरसे नमः
पूजयित्वा विधानेन होमं कृत्वा तथैव च
नमस्त्रिमूर्तये तुभ्यं नमः सूर्याग्निरूपिणे
नीराजनं ततः कृत्वा पश्चाद्भुंजीत वाग्यतः 4.93.
सौवर्णं कारयेद्देवं त्रिनेत्रं शूलपाणिनम्
चन्दनेनानुलिप्ताङ्गं सितमाल्योपशोभितम् सर्वकालिकमेतत्ते कथितं व्रतमुत्तमम्
संवत्सरं समाप्तं हि व्रतस्य तु यदा भवेत् मृतस्य देहो दिव्यस्थो दिव्यालंकारभूषितः
दिव्यनारीगणवृतो विमानवरमास्थितः
इह चागत्य कालांते जातः स च नृपो भवेत्
श्रीमान्वाग्मी कृती धीमान्पुत्रपौत्रसमन्वितः
ये दुर्ल्लभा भुवि सुरोरगमानवानां कामा ह्यनुत्तमगुणेन युताः सदैव
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृ्ष्णयुधिष्ठिरसंवादे आग्नेयीचतुर्दशीव्रतवर्णनं नाम त्रिनवतितमोऽध्यायः
सर्वकामप्रदं नृणां स्त्रीणां चैव युधिष्ठिर
शुक्लपक्षे चतुर्दश्यां मासि भाद्रपदे शुभे
किं शेषनाग आहोस्विदनंतस्तक्षकः स्मृतः
परमात्माथ वानंत उताहो ब्रह्म उच्यते
आदित्यादिषु वारेषु यः काल उपपद्यते
कलाकाष्ठामुहूर्तादि दिनरात्रिशरीरवान्
योऽयं कालो मयाख्यातस्तव धर्मभृतां वर
दानवानां विनाशाय वसुदेवकुलोद्भवम्
ब्रह्माणं भास्करं शेषं सर्वव्यापिनमीश्वरम्
प्रत्ययार्थं मयाख्यातं सोऽहं पार्थ न संशयः युधिष्ठिर उवाच अनन्तव्रतमाहात्म्यविधिं वद विदां वर
किं पुण्यं किं फलं चास्य ह्यनुष्ठानवतां नृणाम्
एवं समस्तं विस्तार्य ब्रूह्यनंतव्रतं हरे श्रीकृष्ण उवाच आसीत्पुरा कृतयुगे सुमंतो नाम वै द्विजः
वशिष्ठगोत्रे चोत्पन्नः सुरूपश्च भृगोः सुताम्
तस्याः कालेन संजाता दुहितानंतलक्षणा
माता च तस्याः कालेन हरदाहेन पीडिता