ततो विवादं पश्यामि भवतां तैः समेत्य च
लोकपालान्महेंद्रादीन्सयमान्वारुणानिलान्
गंधर्वान्वित्तरक्षोघ्नान्राक्षसान्दैत्यदानवान्
दृष्ट्वा तु विबुधान्सर्वान्ब्रह्मा प्रोवाच तानृषीन्
एवमुक्तो गतस्तावदुतथ्यः सूर्यमंडलम्
स उतथ्यमथोवाच कथं ब्रह्मन्व्रजाम्यहम्
एवमुक्तो मुनिः प्रायात्सर्व देवसमागमम् 4.93.
उवाचाङ्गिरसं ब्रह्मा शीघ्रमेनं त्वमानय
एह्येहि भगवन्सूर्य तप्यते भवतान्वहम्
स्थित्वा मुहूर्तं प्रोवाच किं वा कार्यमुपस्थितम्
गच्छ शीघ्रं न दहते भुवनं यावदंगिराः
पाटलो हरितः शोणः श्वेतो वर्णः प्रणाशितः दग्धमङ्गिरसा सर्वं भूयोऽपि प्रदहिष्यति
यावच्च दहते सर्वं भुवनं तपसांगिराः
एवमुक्तः स विभुना स्वस्थानमधिरूढवान्
गत्वाङ्गिरा उवाचेदं गतः किं करवाण्यहम्
संप्रशस्योचुरग्नित्वं कुरु तावन्महीतले
यावदग्निं प्रपश्यामः क्वासौ नष्टः क्व तिष्ठति 4.93.
देवैर्दृष्टो यथा ह्यग्निस्तत्ते सर्वं निवेदितम्
अग्नेऽग्नित्वं कुरुष्व त्वमंगिरास्तु यथा पुरा
को मेऽपहृतं तेजः केनाग्नित्वं कृतं त्विह
उवाच मुञ्च मत्स्थानं वचस्तोषकरं शृणु
बृहस्पतीति नामा वै तथान्ये बहवः सुताः
वह्निं संजनयामास पुत्रान्पौत्रांस्तदांगिराः
सर्वमेव चतुर्दश्यां संजातं हव्यवाहनम्
ततोऽष्टपतिपत्वे च रुद्रेण प्रतिपादितम्
पैलजाबालिमन्वाद्यैरन्यैश्च नहुषादिभिः
अज्ञातावृषपापैश्च व्यालैर्ये व्याप्य हिंसिताः 4.93.
पतिताः पर्वतेभ्यश्च तोयाग्निदहने मृताः तेषां शस्तं चतुर्दश्यां श्राद्धं स्वर्गसुखप्रदम्
श्राद्धानि चैव दत्तानि दानानि सुलघून्यपि
एवं तिथिरियं राजन्नाग्नेयी प्रोच्यते जनैः