देवा अन्वेषणे यत्नमकुर्वन्नग्निदर्शने
हंसाः केकाः शुका वह्निः शीघ्रं शरवणं गताः
दृष्ट्वाथ विबुधाः सर्वे पक्षिणं पक्षिणां वरम्
कच्चिदृष्टस्त्वया वह्निर्वनेऽस्मिन्नटता सदा
भूयोभूयस्तु पृष्टोऽपि न गामुच्चारयेच्चिरम्
यस्मान्न किञ्चिदुक्तं ते तस्माच्चित्र तनूरुहाः
द्वितीयं ते वरं दद्मो जीवजीवक शोभनम् 4.93.
कश्चिद्यदि तवाधस्थाद्बुधः स्नानं करिष्यति
मासं यश्च तृतीयं वै भक्षयिष्यत्यनिंदितम्
इदं दत्त्वा वरांस्तस्य वह्नित्वमथ आप्तवान्
ऊष्मया जातकल्माषं ज्ञात्वा संहृष्टमानसः
ऊष्मया कल्मषीभूय ह्यग्निर्गर्भं धरिष्यति
पंडाग्निपालने पुण्यं यद्दृष्टं ब्रह्मवादिभिः
वंशस्यानुग्रहं कृत्वा देव्याहृतिमथाब्रुवन्
भूयोऽपि केन कालेन अग्निरग्नित्वमाप्तवान्
यस्मिन्काले तिथी यस्या पुनरग्नित्वमाप्तवान्
उतथ्याङ्गिरसोः पूर्वमासीद्व्यतिकरो महान् उतथ्येनैवमुक्तस्तु अङ्गिराः प्राह तं मुनिम् ।।4.93.
गच्छावो ब्रह्मसदनं मरीचिप्रमुखैर्द्विजैः उतथ्यः प्राह सद्ब्रह्मनृषींस्तान्स्तब्धमानसः
ज्यायान्वा कतमोस्माकमिति नः कथ्यतां स्फुटम्
अथोवाच मुनिर्ब्रह्मा तावुभौ कुद्धमानसौ
ततो विवादं पश्यामि भवतां तैः समेत्य च
लोकपालान्महेंद्रादीन्सयमान्वारुणानिलान्
गंधर्वान्वित्तरक्षोघ्नान्राक्षसान्दैत्यदानवान्
दृष्ट्वा तु विबुधान्सर्वान्ब्रह्मा प्रोवाच तानृषीन्
एवमुक्तो गतस्तावदुतथ्यः सूर्यमंडलम्
स उतथ्यमथोवाच कथं ब्रह्मन्व्रजाम्यहम्
एवमुक्तो मुनिः प्रायात्सर्व देवसमागमम् 4.93.
उवाचाङ्गिरसं ब्रह्मा शीघ्रमेनं त्वमानय
एह्येहि भगवन्सूर्य तप्यते भवतान्वहम्
स्थित्वा मुहूर्तं प्रोवाच किं वा कार्यमुपस्थितम्