शतानंद इति ख्यातो विष्णुव्रतपरायणः
विनीतस्यातिशांतस्य स बभूवाक्षिगोचरः क्व यासीति द्विजश्रेष्ठ वृत्तिः कामेन कथ्यताम्
याचितुं धनिनां द्वारि व्रजामि धनमुत्तमम्
तद्वारक उपायोयं विशेषेण कलौ किल
ममोपदेशतो विप्र सत्यनारायणं भज चरणं शरणं याहि मोक्षदं पद्मलोचनम्
एवं संबोधितो विप्रो हरिणा करुणात्मना
इदानीं विप्ररूपेण तव प्रत्यक्षमागतः
दुःखोदधिनिमग्नानां तरणिश्चरणौ हरेः 3.2.25.
आहृत्य पूजासंभारान्हिताय जगतां द्विज
इति ब्रुवंतं विप्रोसौ ददर्श पुरुषोत्तमम्
पीतांबरं नवांभोजलोचनं स्मितपूर्वकम्
निशम्य पुलकांगोसौ प्रेमपूर्णसुलोचनः
प्रणमामि जगन्नाथ जगत्कारणकारकम्
अव्यक्तं व्यक्ततां यातं तापत्रयविमोचनम्
नमः सत्य नारायणायास्य कर्त्रे नमः शुद्धसत्त्वाय विश्वस्य भर्त्रे
धन्योस्म्यद्य कृती धन्यो भवोद्य सफलो मम
दिष्टं किं वर्णयाम्याहो न जाने कस्य वा फलम्
पूजनं च प्रकर्तव्यं लोकनाथ रमापते ।। 3.2.25.
हरिस्तमाह मधुरं सस्मितं विश्वमोहनः
अनायासेन लब्धेन श्रद्धामात्रेण मां यज
विधानं शृणु विप्रेन्द्र मनसा कामयेत्फलम्
गोधूमचूर्णं पादार्द्धं सेटकादिप्रमाणतः
तच्चूर्णं हरये दद्याद् घृतयुक्तं हरिप्रियम्
गंगाजलेन मधुना युक्तं पञ्चामृतं प्रियम्
गन्धपुष्पादिनैवेद्यैर्वेदवादैर्मनोहरैः
मिष्टान्नपानसन्मानैर्भक्ष्यैर्भोज्यैः फलैस्तथा
ब्राह्मणैः स्वजनैश्चैव वेष्टितः श्रद्धयान्वितः
इतिहासं तथा राज्ञो भिल्लानां वणिजोऽस्य च 3.2.25.
लब्धं प्रसादं भुंजीत मानयन्न विचारयेत्
विधि?नानेन विप्रेन्द्र पूजयंति च ये नराः