इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे पालीव्रतवर्णनं नामैकनवतितमोऽध्यायः
रम्भाव्रतवर्णनम् देवलेन पुरा गीतं देवर्षिगणसन्निधौ
अप्सरोगणगंधर्वैर्देवैः सर्वैः समर्चितम् शुक्लपक्षे चतुर्दश्यां मासि भाद्रपदे नृप
दत्तमर्घ्यं वरस्त्रीभिः फलैर्नानाविधैः शुभैः
दधिदूर्वाक्षतैर्वस्त्रैर्नैवेद्यैर्घृतपाचितैः
कदलैः कन्दरभटैर्मोचा सात्र निगद्यते
मंत्रे णानेन चैवार्घ्यं शृणुष्व च नराधिप शरीरारोग्यलावण्यं देहि देवि नमोऽस्तु ते
इत्थं यः पूजयेद्राजा पुरुषो भक्तिमान्नृप
तस्याः कुले न भवति क्वचिन्नारी कुलाटनी
विलासिनी वा वृषली पुनर्भूः पुनरेतसी
भर्तृ व्रतात्प्रचलिता न कदाचित्प्रजायते आयुष्मती कीर्तिमती रमेद्वर्षशतैर्भुवि ।। 4.92.
एकं रंभा व्रतं चीर्णं गायत्र्या स्वर्गसंस्थया
श्वेतद्वीपे तथा लक्ष्म्या राज्ञ्या च रविमंडले
सीतादेव्या त्वयोध्यायां वेदवत्या हिमाचले
एतद्व्रतं पार्थिवेन्द्र मासि भाद्रपदे सिते
संभिन्नकन्दकदली च मनोज्ञरूपां याः पूजयंति कुसुमाक्षतधूपदीपैः
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रम्भाव्रतं नाम द्विनवतितमोऽध्यायः
आग्नेयीचतुर्दशीव्रतवर्णनम् नष्टस्तदा हव्यवाहः पुनरस्तित्वमाप्तवान्
केनाग्नित्वं कृतं तत्र कथं हि विदितोऽनलः
अपृच्छन्विश्वकर्तारं तारकं को वधिष्यति
उवाचासौ चिरं ध्यात्वा रुद्रोमाशुक्रसम्भवः
एवं श्रुत्वा गता देवा यत्र शम्भुः सहोमया
प्रतिपन्नं च रुद्रेण उमया सहितेन तत्
दिव्यं वर्षशतं साग्रं गतः कालोऽथ मैथुने भयं च सुमहत्तेषां देवानां समजायत
स रुद्रसम्भवो यो वै भविष्यति महाबलः
केन कालेन भवति रतेर्विरतिरेतयोः
गतौ तौ चोमया दृष्टौ समस्थौ विषमस्थया 4.93.
यस्मात्तैर्जनितो विघ्नो मेऽपत्यार्थे दिवौकसाम्
अथोवाच तदा देवो देवान्सर्वगणाञ्छनैः
एवमुक्तोऽथ रुद्रेण नष्टोऽग्निर्देवसंकुलात्