पुत्रपौत्रैः परिवृतो भुक्त्वा भोगान्मनोऽनुगान्
त्रिदशाधिपतिमश्वयुजि पूज्य सिन्दूरकव्रजैः
रूपवान्सुभगो वाग्मी भुक्त्वा भोगान्महीतले
विश्वेश्वरं कार्त्तिके तु सर्वपुष्पैस्तु पूजयेत्
दमनोन्मादकर्ता च सर्वस्य जगतः प्रभुः
एवं संवत्सरस्यांते पारितेऽस्मिन्व्रतोत्तमे
व्रते विध्नो यदा च स्यादशक्त्या सूतकेन वा
पूर्वोक्तमेवं निर्वर्त्य सौवर्णं कारयेच्छिवम् 4.90.
शुक्लवस्त्रेण संछाद्य पुष्पनैवेद्यपूजितम्
शक्तिमाञ्छयनं दद्याद्गां सवत्सां पयस्विनीम्
शांताश्च केचिदिच्छंति शक्त्या दद्याच्च दक्षिणाम्
देवदेवस्य राजेन्द्र पुष्पदीपान्नसंयुतम्
प्रदद्याच्छिवभक्तेभ्यो विशुद्धेनांतरात्मना
नारी वा भरतश्रेष्ठ कुमारी वा यतव्रता
अनेन विधिना कुर्याद्यस्त्वनंगत्रयोदशीम्
सौभाग्यं महदाप्नोति यावज्जन्मशतं नृप
कामेन या किल पुरा समुपोषितासीच्छुभ्रा तिथिस्त्रिदशमी सुशुभांगहेतोः
इति श्रीभविष्ये महापुराण उत्तरपर्वण्यनंगत्रयोदशीव्रतवर्णनं नाम नवतितमोऽध्यायः
पालीव्रतवर्णनम् कस्यार्थं सम्प्रयच्छंति कृष्णैताः कुलयोषितः
मासि भाद्रपदे प्राप्ते शुक्ले भूततिथौ नृप
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैः स्त्रीभिस्तथैव च
पुष्पैः फलैस्तथा वस्त्रैर्दीपालक्तकचन्दनैः
खर्जूरैर्नालिकेरैश्च बीजपूर्णारकैस्तथा
आलिख्य मण्डले देवं वरुणं वारुणीयुतम्
वरुणाय नमस्तुभ्यं नमस्ते यादसांपते
मा क्लेदं मा च दौर्गंध्यं विरस्यं मा मुखेऽस्तु मे
एवं यः पूजयेद्भक्त्या वरुणं वरुणालयम्
चातुर्वर्ण्यथ वै नारी व्रतेनानेन पांडव 4.91.
एवं यः कुरुते पार्थ पालीव्रतमुत्तमम्
संरुद्धशुद्धसलिलातिबलां विशालां पालीमुपेत्य बहुभिस्तरुभिः कृतालीम्