वरमेकापि वरदा कृतानंगत्रयोदशी
सौभाग्यारोग्यजयदा सर्वातंकनिवारिणी
शृणुष्व तां महाबाहो कथयामि सविस्तरम्
भस्मीभूतेन लोकानां संकल्पिता पुरानघ
हेमंते समनुप्राप्ते मासि मार्गशिरे शुभे
स्नानं नद्यां तडागे च गृहे वा नियतात्मवान्
धूपदीपैः सनैवेद्यैः पुष्पैः कालोद्भवैस्तथा
अनंगनाम्ना संपूज्य मधु प्राश्य स्वपेन्निशि 4.90.
धूपं सुगंधिं दद्याच्च रक्तपुष्पैस्तु पूजनम्
मधुवत्स्यात्समधुरः कामरूपधरस्तथा
पुष्यमासस्य चैवोक्तं चंदनं प्राशयन्निशि
नैवेद्यं घृतपूराश्च दमशान्तास्तु ताः स्त्रियः
राजसूयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम्
नैवेद्यं क्षीरखण्डाद्यैर्मौक्तिकं प्राशयेन्निशि
मुक्ताचूर्णनिभैर्नेत्रैर्यद्वा स्यात्तद्वदेव हि
तप्त जांबूनदाभासो भवेद्दिव्यतनुर्महान्
फाल्गुने मासि संपूज्य देवदेवं हरेश्वरम्
कंकोलं प्राशयेद्रात्रौ सौंदर्यमतुलं लभेत् 4.90.
नैवेद्यं धूपकं दद्याद्घृतखण्डविपाचितम्
चन्द्रश्च चन्द्रकांतिश्च चन्द्रवर्त्यहरावृते
वैशाखे च महारूपं पुष्पैर्नौमालिकार्चनम्
जातीफलं तु संप्राश्य जातिमाप्नोत्यनुत्तमाम्
गोसहस्रफलं प्राप्य ब्रह्मलोके महीयते
नैवेद्यं खण्डवर्तिं च लवंगं प्राशयेन्निशि
सर्व सौख्यसमोपेतः स्थित्वा भुवि शतं समाः
आषाढे चैव संप्राप्ते उमाभर्तारमर्चयेत्
तिलोत्तमा रूपधरा सुखी स्याच्छरदः शतम्
नैवेद्यं लड्डुकान्दद्यात्कृष्णांश्च प्राशयेत्तिलान् 4.90.
तदंते राजराजः स्याच्छत्रुपक्ष क्षयंकरः
नैवेद्यं सोलिकां दद्यात्प्राशयेदगुरुं निशि