उज्जयिन्यां प्रयागे वा भैरवे वाथ ये मृताः
किं तत्र वद कर्तव्यं पुरुषैस्तव तुष्टिदम्
त्रयोदश्यां सौम्यदिने सूर्यांगारकवर्जितः
मम नाम्ना द्विजानष्टौ पंच चैव समाह्वयेत्
अंतर्वासोवृतान्भक्तान्सौपदिष्टदिगुन्मुखान्
स्नापयेद्गन्धकाषायैः सुखोष्णांबुभिरेव च
शुचिर्भूत्वा तथाचांतो व्रती भक्तिपरायणः 4.89.
प्राङ्मुखानुपविष्टांश्च त्रयोदश पृथक्पृथक्
सुव्यञ्जनं सुपक्वान्नं भूयोभूयो निवेदयेत्
प्रस्थमात्रैरथैकैकं ताम्रपात्रसमन्वितैः
चर्मप्रावरणैः श्रेष्ठैस्तेषां दत्त्वा विसर्जयेत् ब्राह्मणान्वाचकं वापि पंक्तिभेदं न कारयेत्
ॐ नमः शनैश्चरो मृत्युर्दंडहस्तो विनाशकः
लोकपालो ह्यतिक्रूरो रौद्रो घोराननः शिवः (स्वाहा)
इत्युक्त्वा संप्रयच्छेच्च देयं दत्त्वा व्रती पुनः
एवं यः पुरुषः कश्चित्सकृद्व्रतमिदं चरेत्
अदृष्टो मम मायाभिर्विमानेनार्कमंडलम्
कृतं चीर्णं व्रतं तेन मुद्गलेन ममोदितम् 4.89.
इति कालवचः श्रुत्वा तेऽपि दूता गतास्तु मे स्वशरीरं पुनः प्राप्य नीरोगः पुनरुत्थितः
त्वां द्रष्टुमागतः प्रोक्तमेतद्वृत्तं मया तव
इदं कुरुष्व कौंतेय त्वमप्यत्र महीतले
एवं येन्येऽपि पुरुषाः स्त्रियो वापि युधि ष्ठिर
एकभक्तेन नक्तेन उपवासेन वा पुनः
सर्वपापविनिर्मुक्ता दिव्ययानं समाश्रिताः
दोधूयमानाश्चमरैः स्तूयमानाः सुरासुरैः
अदृष्टो घोररूपास्यैर्यमदूतैर्युधिष्ठिर
अदारितो महारौद्रैर्नानाप्रहरणोत्तमैः
सर्वसौख्यसमायुक्ताः शिववत्सौम्यदर्शनाः 4.89.
स्नाप्य त्रयोदश मुनीन्घृतपायसेन संपूज्य पूज्यतिलतण्डुलवस्त्रदानैः
अनङ्गत्रयोदशीव्रतवर्णनम् व्रतं कथय किञ्चिन्मे रूपसौभाग्यदायकम्
कायक्लेशकरैः क्रूरैरसारैः फल साधनैः