सिंहैर्व्याघ्रैर्वराहैश्च तरक्षैश्चानुजंतुकैः
गृध्रैरुलूकैर्बहुभिर्मत्कुणैर्डाकिनीग्रहैः
पिशाचैर्यक्षकूष्मांडैः पाशखड्गधनुर्द्धरैः
बृहत्कायैर्नारकीयैः पापिष्ठानां नियामकैः
असिभंगामिषच्छेदरुधिरस्रावकादिभिः
स आह किंकरान्सर्वान्धर्मराजो जनार्दन
मुद्गलो नाम कौडिन्ये नगरे भीष्मकात्मजः
इत्युक्तास्ते गतास्तस्मादायाताः पुनरेव ते 4.89.
अस्माभिस्तत्र क्षीणायुर्न देही लक्षितो गतैः
कृता त्रयोदशी यैस्तु नरकार्तिविनाशिनी
उज्जयिन्यां प्रयागे वा भैरवे वाथ ये मृताः
किं तत्र वद कर्तव्यं पुरुषैस्तव तुष्टिदम्
त्रयोदश्यां सौम्यदिने सूर्यांगारकवर्जितः
मम नाम्ना द्विजानष्टौ पंच चैव समाह्वयेत्
अंतर्वासोवृतान्भक्तान्सौपदिष्टदिगुन्मुखान्
स्नापयेद्गन्धकाषायैः सुखोष्णांबुभिरेव च
शुचिर्भूत्वा तथाचांतो व्रती भक्तिपरायणः 4.89.
प्राङ्मुखानुपविष्टांश्च त्रयोदश पृथक्पृथक्
सुव्यञ्जनं सुपक्वान्नं भूयोभूयो निवेदयेत्
प्रस्थमात्रैरथैकैकं ताम्रपात्रसमन्वितैः
चर्मप्रावरणैः श्रेष्ठैस्तेषां दत्त्वा विसर्जयेत् ब्राह्मणान्वाचकं वापि पंक्तिभेदं न कारयेत्
ॐ नमः शनैश्चरो मृत्युर्दंडहस्तो विनाशकः
लोकपालो ह्यतिक्रूरो रौद्रो घोराननः शिवः (स्वाहा)
इत्युक्त्वा संप्रयच्छेच्च देयं दत्त्वा व्रती पुनः
एवं यः पुरुषः कश्चित्सकृद्व्रतमिदं चरेत्
अदृष्टो मम मायाभिर्विमानेनार्कमंडलम्
कृतं चीर्णं व्रतं तेन मुद्गलेन ममोदितम् 4.89.
इति कालवचः श्रुत्वा तेऽपि दूता गतास्तु मे स्वशरीरं पुनः प्राप्य नीरोगः पुनरुत्थितः
त्वां द्रष्टुमागतः प्रोक्तमेतद्वृत्तं मया तव
इदं कुरुष्व कौंतेय त्वमप्यत्र महीतले