उपाध्यायस्य वचनाद्वैवस्वतपुरे मया
दक्षिणां तामुदाहृत्य प्रस्थितौ पुनरागतौ
ततःप्रभृति पुत्रार्थाः पूजयंति जनाः सदा 4.87.
वामे नारायणो हंस एवमेव च के भवेत्
त्रयोदश्यां सिते पक्षे मासिमासि यतव्रतः
गन्धपुष्पैश्च मधुभिः सीधुभिश्च सुरासवैः
यक्षगन्धबलिक्षेपैः पललौदनसंसृजैः
भर्तृसहिता स्वर्गलोके महीयते
अंबांबिके द्विदशमेऽह्नि सिते सदैव यः पूजयेत्कुसुममांससुरोपहारैः
मन्दारकनिम्बार्कव्रतवर्णनम् कटुतिक्ताम्लदेहोत्थदौर्भाग्यशमनं तथा
पृष्टो राज्ञ्या विष्णुभक्त्या कालनंदनजातया
कथयामास संपृष्टा सूपविष्टा शृणोति सा
ज्येष्ठे मासि सिते पक्षे त्रयोदश्यां युधिष्ठिर
श्वेतमंदारमर्कं वा करवीरं च रक्तकम्
पुष्पैर्नैवेद्यधूपाद्यैर्मंत्रेणानेन पांडव
सूर्यं श्वेतारमंदारश्वेतार्कास्यसंशयम्
निंबं नवार्ककरवीरलतां सुपुष्पां याः पूजयंति कुसुमाक्षतधूपदीपैः
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मन्दारनिम्बार्ककरवीरव्रतवर्णनं नामाष्टाशीतितमोऽध्यायः
त्रयोदशीव्रतवर्णनम् कथं न गम्यते कृष्ण नरकं नरकेसरिन्
दृष्टवान्मुनिमायांतं मुद्गलं नाम पार्थिव
प्रज्वलंतमिवादित्यं तपसा द्योतितान्तरम्
यमादर्शननामैतद्व्रतं जन्तुभयापहम्
पश्यामि दंडपुरुषैर्मद्देहात्प्रज्वलन्निव
अंगुष्ठमात्रः पुरुषो बलदाकृष्य रोषितः
क्षणात्सभायां पश्यामि यमं पिंगललोचनम्
वातपित्तमहाश्लेष्मैर्मूर्तिमद्भिरुपासितम्
ज्वरगर्दभशीर्षादिभगंदरमलक्षयैः
वेदनाभिः प्रमेहैश्च पिटकैर्गंडबुद्बुदैः 4.89.
इत्थं बहुविधै रौद्रैर्नानारूपभयंकरैः
राक्षसैर्दानवैरुग्रैरुपविष्टैः पुरःस्थितैः