ततः सा कश्यपोक्तेन विधिना समतिष्ठत
एवमन्यापि या नारी मदनद्वादशीमि माम्
एकोनमर्द्धशतमाप दितिः सुतानां येन व्रतेन बलवीर्यसमन्वितानाम्
अबाधकव्रतवर्णनम् समुद्रतरणे दाने संग्रामे तस्करार्दने
कां देवतां स्मरेत्कृष्ण परित्राणकरीमिह
नाप्नोति दुःखं पुरुषः संस्मरन्सर्वमङ्गलाम्
अलक्ष्यां लक्ष्यभूतानां संस्मरन्सर्वमंगलाम् ।।४ भयं समवाप्नोति पुरुषः पार्थ कुत्रचित्
यदा तां प्रतिजिज्ञासुरवंत्यामहमागतः
प्राप्तविद्येन च मया प्रतिज्ञातास्य दक्षिणा
प्रभासतीर्थे पुत्रो मे गतः केनाप्यसौ हतः
उपाध्यायस्य वचनाद्वैवस्वतपुरे मया
दक्षिणां तामुदाहृत्य प्रस्थितौ पुनरागतौ
ततःप्रभृति पुत्रार्थाः पूजयंति जनाः सदा 4.87.
वामे नारायणो हंस एवमेव च के भवेत्
त्रयोदश्यां सिते पक्षे मासिमासि यतव्रतः
गन्धपुष्पैश्च मधुभिः सीधुभिश्च सुरासवैः
यक्षगन्धबलिक्षेपैः पललौदनसंसृजैः
भर्तृसहिता स्वर्गलोके महीयते
अंबांबिके द्विदशमेऽह्नि सिते सदैव यः पूजयेत्कुसुममांससुरोपहारैः
मन्दारकनिम्बार्कव्रतवर्णनम् कटुतिक्ताम्लदेहोत्थदौर्भाग्यशमनं तथा
पृष्टो राज्ञ्या विष्णुभक्त्या कालनंदनजातया
कथयामास संपृष्टा सूपविष्टा शृणोति सा
ज्येष्ठे मासि सिते पक्षे त्रयोदश्यां युधिष्ठिर
श्वेतमंदारमर्कं वा करवीरं च रक्तकम्
पुष्पैर्नैवेद्यधूपाद्यैर्मंत्रेणानेन पांडव
सूर्यं श्वेतारमंदारश्वेतार्कास्यसंशयम्
निंबं नवार्ककरवीरलतां सुपुष्पां याः पूजयंति कुसुमाक्षतधूपदीपैः
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मन्दारनिम्बार्ककरवीरव्रतवर्णनं नामाष्टाशीतितमोऽध्यायः
त्रयोदशीव्रतवर्णनम् कथं न गम्यते कृष्ण नरकं नरकेसरिन्
दृष्टवान्मुनिमायांतं मुद्गलं नाम पार्थिव