शय्यानंगवती वेश्या कामदेशस्य सांप्रतम् 4.85.
लोकेष्वानंदजननी सकलामरपूजिता
इत्युक्त्वा स मुनिः सर्वं तत्रैवांतर्हितोभवत्
इमामाचरतो ब्रह्मन्नखण्डव्रतमाचरेत् कर्तव्याः शक्तितो देया विप्रेभ्यो दक्षिणा नृप
इति कलुषविदारणं जनानामिति पठति शृणोति चातिभक्त्या
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विभूतिद्वादशीव्रतवर्णनं नाम पंचाशीतितमोऽध्यायः
मदनद्वादशीव्रतवर्णनम् सुतानेकोनपंचाशद्येन लेभे दितिः पुरा
विस्तरेण तदेवेदं मत्सकाशान्निवोधत
चैत्रे मासे सिते पक्षे द्वादश्यां नियतव्रतः
नानाफलयुतं तद्वदिक्षुदण्डसमन्वितम्
नानाभक्ष्यसमोपेतं सहिरण्यं च शक्तितः
तस्योपरि तथा कामं कदलीदल संस्थितम्
गंधं पुष्पं तथा दद्याद्गीतं वाद्यं च कारयेत्
कामं नाम्ना हरेरर्चां स्नापयेद्गंधवारिणा
कामाय पादौ संपूज्य जंघे सौभाग्यदाय च
शांतोदरायेत्युदरमनंगायेत्युरो हरेः 4.86.
नमः सर्वात्मने मौलिमर्चयेदिति केशवम्
ब्राह्मणान्भोजयेद्भक्त्या स्वयं च लवणादृते
प्रीयतामत्र भगवान्कामरूपी जनार्दनः
अनेन विधिना सर्वं मासिमासि समाचरेत्
ततस्त्रयोदशे मासि घृतधेनुसमन्विताम्
काञ्चनं कामदेवं च शुक्लां गां च पयस्विनीम्
होमः शुक्लतिलैः कार्यः कामनामानि कीर्तयेत्
विप्रेभ्यो भोजनं दद्याद्वित्त शाठ्यंविवर्जयेत्
यः कुर्याद्विधिनानेन मदनद्वादशीमिमाम्
इह लोके वरान्पुत्रान्सौभाग्यं सुखमश्नुते 4.86.
चकाराकर्कशां भूयो रूपलावण्यसंयुताम् पुत्रं शत्रुवधार्थाय समर्थममितौजसम्
प्रार्थयामि महाभाग्यं सर्वामरनिषूदनम्
संवत्सरशतं त्वेकं गर्भो धार्यः सुखेप्सया
न स्थातव्यं न गंतव्यं वृक्षमूलेषु सर्वदा