अथानंगवती तुष्टा तयोर्होनशतत्रयम् 4.85.
अनंगवती च पुनस्तयोरन्नं चतुर्विधम्
ताभ्यां तु तदपि त्यक्तं भोज्यावः श्वो वरानने
जन्मप्रभृति पापिष्ठावावां देवि दृढव्रते
इति जागरणं ताभ्यां प्रसंगात्तदनुष्ठितम्
ग्रामश्च गुरवे भक्त्या विप्रेभ्यो द्वादशैव हि
भोजनं च सुहृन्मित्रदीनांधकृपणैः समम्
भवाँस्तु लुब्धको जातः सपत्नीको नरेश्वरः
प्राप्तं सुदुर्ल्लभं वीर त्वया पुष्करमन्दिरम्
यथा कामगतं दक्षं पद्मयोनिं विरिंचिना
शय्यानंगवती वेश्या कामदेशस्य सांप्रतम् 4.85.
लोकेष्वानंदजननी सकलामरपूजिता
इत्युक्त्वा स मुनिः सर्वं तत्रैवांतर्हितोभवत्
इमामाचरतो ब्रह्मन्नखण्डव्रतमाचरेत् कर्तव्याः शक्तितो देया विप्रेभ्यो दक्षिणा नृप
इति कलुषविदारणं जनानामिति पठति शृणोति चातिभक्त्या
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विभूतिद्वादशीव्रतवर्णनं नाम पंचाशीतितमोऽध्यायः
मदनद्वादशीव्रतवर्णनम् सुतानेकोनपंचाशद्येन लेभे दितिः पुरा
विस्तरेण तदेवेदं मत्सकाशान्निवोधत
चैत्रे मासे सिते पक्षे द्वादश्यां नियतव्रतः
नानाफलयुतं तद्वदिक्षुदण्डसमन्वितम्
नानाभक्ष्यसमोपेतं सहिरण्यं च शक्तितः
तस्योपरि तथा कामं कदलीदल संस्थितम्
गंधं पुष्पं तथा दद्याद्गीतं वाद्यं च कारयेत्
कामं नाम्ना हरेरर्चां स्नापयेद्गंधवारिणा
कामाय पादौ संपूज्य जंघे सौभाग्यदाय च
शांतोदरायेत्युदरमनंगायेत्युरो हरेः 4.86.
नमः सर्वात्मने मौलिमर्चयेदिति केशवम्
ब्राह्मणान्भोजयेद्भक्त्या स्वयं च लवणादृते
प्रीयतामत्र भगवान्कामरूपी जनार्दनः
अनेन विधिना सर्वं मासिमासि समाचरेत्