तपसा तस्य तुष्टेन चतुर्वक्त्रेण भारत ।।4.85.
समस्तभृत्यसहितः सांतःपुरपरिस्थितः
कल्पादौ सप्तमे द्वीपे तेन पुष्करवासिनः
तदैव ब्रह्मणा दत्तं यानमस्य यतो नृप
नागस्य तस्यास्य जगत्त्रयेपि ब्रह्मांबुजस्थस्य तपोऽनुभावात्
नाम्ना च लावण्यवती बभूव या पार्वतीवेष्टतमा भवस्य
तदात्मनः सर्वमवेक्ष्य राजा मुहुर्मुहुर्विस्मयमाससाद
कस्माद्विभूतिरमला मम मर्त्यपूज्या जाया च सर्वविजितामरसुन्दरी या
यस्मिन्प्रविष्टमपि कोटिशतं नृपाणां सामात्यकुजरनराश्वघनावृतानाम्
तस्मात्किमन्यजननीजठरोद्भवेन धर्मादिकं कृतमशेषजनातिगं स्यात्
तस्य तद्वचनं श्रुत्वा ध्यानेना वेक्ष्य चाखिलम् 4.85.
लुब्धकस्त्वं पुरा राजन्सर्वसत्त्वभयंकरः
यतमध्यो ह्रस्वकेशः कृष्णांगो रक्तलोचनः
अभूदनावृष्टिरतीव रौद्रा कदाचि दाहारनिमित्तरोषः
उन्मूल्य लोभाच्च पुरं समस्तं भ्रांतं त्वयाशेषमहत्तदा सीत्
उपविष्टस्त्वमेकस्मिन्सभार्यो भवनांगणे
समाप्य माघमासस्य द्वादश्यां लवणाचलम्
अलंकृत्य हृषीकेशं सीवर्णं परमं पदम्
किमेभिः कमलैः कार्यं वरं विष्णुरलंकृतः
तत्प्रसंगात्समभ्यर्च्य केशवं लवणाचलम्
अथानंगवती तुष्टा तयोर्होनशतत्रयम् 4.85.
अनंगवती च पुनस्तयोरन्नं चतुर्विधम्
ताभ्यां तु तदपि त्यक्तं भोज्यावः श्वो वरानने
जन्मप्रभृति पापिष्ठावावां देवि दृढव्रते
इति जागरणं ताभ्यां प्रसंगात्तदनुष्ठितम्
ग्रामश्च गुरवे भक्त्या विप्रेभ्यो द्वादशैव हि
भोजनं च सुहृन्मित्रदीनांधकृपणैः समम्
भवाँस्तु लुब्धको जातः सपत्नीको नरेश्वरः
प्राप्तं सुदुर्ल्लभं वीर त्वया पुष्करमन्दिरम्
यथा कामगतं दक्षं पद्मयोनिं विरिंचिना