जलधेनुः पंचमी तु षष्ठी तु क्षीरसंभवा रसधेनुश्च नवमी दशमी स्यात्स्वरूपतः
कुंभा स्युर्दशधेनूनामितरासां तु राशयः
मंत्रावाहनसंयुक्तां सदा पर्वणिपर्वणि
गुडधेनुप्रसंगेन सर्वास्तव मयोदिताः
व्रतानामुत्तमं यत्स्याद्विशोकद्वादशीव्रतम् 4.84.
अयने विषुवे पुण्ये व्यतीपातेऽथ वा पुनः
विशोकद्वादशी चैषा सर्वपापहरा शुभा
इह लोके तु सौभाग्यमायुरारोग्यमेव च
भवार्बुदसहस्राणि दश चाष्टौ च धर्मवित्
नारी वा कुरुते या तु विशोकद्वादशीमि माम्
इति पठति य इत्थं यः शृणोतीह सम्यङ् मधुपुरनरकारेरर्चनं यश्च पश्येत्
विभूतिद्वादशीव्रतवर्णनम् विभूतिद्वादशीं नाम सर्वामरनमस्कृतम्
कार्त्तिके वाथ वैशाखे मार्गशीर्षे च फाल्गुने
कृत्वा सायंतनीं संध्यां गृह्णीयान्नियमं बुधः
द्वादश्यां द्विजसंयुक्तः करिष्ये भोजनं विभो
ततः प्रभात उत्थाय कृतस्नानजपः शुचिः
भूतिदाय नमः पादौ विशोकाय च जानुनी
कंदर्पाय नमो मेढ्रमादित्याय नमः करौ
माधवायेति हृदयं कंठं वैकुंठिने नमः
पृष्ठं शार्ङ्गधरायेति श्रवणौ वरदाय वै
सर्वात्मने शिरो राजन्नम इत्यभिपूजयेत् 4.85.
दत्तात्रेयं यथा व्यासमुत्पलेन समन्वितम्
समाप्यैवं यथाशक्त्या द्वादश द्वादशीर्नरः शय्यां दद्यान्मुनिश्रेष्ठ गुरवे रससंयुताम्
ग्रामं च शक्तिमान्दद्यात्क्षेत्रं वा भवनान्वितम्
अन्यानपि यथाशक्त्या भोजयित्वा द्विजोत्तमान्
अल्पवित्तो यथाशक्त्या स्तोकंस्तोकं समाचरेत् पुप्पार्चनविधानेन स कुर्याद्वत्सरत्रयम्
अनेन विधिना यस्तु विभूतिद्वादशीव्रतम्
जन्मनां शतसाहस्रं न शोकफलभाग्भवेत्
वैष्णवो वाथ शैवो वा भवेजन्मनिजन्मनि तावत्स्वर्गे वसेद्राजन्भूपतिश्च पुनर्भवेत्
पुरा रथंतरे कल्पे राजासीत्पुष्पवाहनः