यथा न लक्ष्मीर्देवेश त्वां परित्यज्य गच्छति
यथा देवेन रहिता न लक्ष्यीर्जायते क्वचित्
मंत्रेणानेन ध्यात्वा तु गुडधेनुसमन्वितम्
उत्पातं करवीरं च बाणमम्लान कुंडलम् कादंबैः कुंकुमैर्जात्या तथान्यैरपि पूजयेत्
किंरूपा केन मंत्रेण दातव्या तदिहोच्यताम्
तदिदानीं प्रवक्ष्यामि सर्वपापप्रणाशनम्
कृष्णाजिनं चतुर्हस्तं प्रागेवं विन्यसेद्भुवि ।। 4.84.
लब्धेन कांचनं तद्वद्वत्सं च परिकल्पयेत्
उत्तमा गुडधेनुः स्यात्सदा भार चतुष्टया ३२. चतुर्थांशेन वत्सः स्याद्गृहवित्ता नुसारतः
धेनुवत्सौ कृतावेतौ सितसूक्ष्मांबरावृतौ
सितसूत्रशिरालौ तु सितकंबल कंबलौ
विद्रुमभ्रूयुगावेतौ नवनीतस्तनान्वितौ
सुवर्णशृंगाभरणौ राजतखुरसंयुतौ इत्येवं रचयित्वा तु धूपदीपैरथार्चयेत्
या लक्ष्मीः सर्वभूतानां या च देवे व्यवस्थिता
विष्णोर्वक्षसि या लक्ष्मीः स्वाहायां च विभावसौ
चतुर्मुखस्य या लक्ष्मीर्या लक्ष्मीर्धनदस्य च ।। 4.84.
स्वधा त्वं पितृमुख्यानां स्वाहा यज्ञभुजां पुनः
एवमामंत्र्य तां धेनुं ब्राह्मणाय निवे दयेत्
यास्तु पापविनाशिन्यः श्रूयते दश धेनवः
प्रथमा गुडधेनुः स्याद् घृतधेनुरथापरा
जलधेनुः पंचमी तु षष्ठी तु क्षीरसंभवा रसधेनुश्च नवमी दशमी स्यात्स्वरूपतः
कुंभा स्युर्दशधेनूनामितरासां तु राशयः
मंत्रावाहनसंयुक्तां सदा पर्वणिपर्वणि
गुडधेनुप्रसंगेन सर्वास्तव मयोदिताः
व्रतानामुत्तमं यत्स्याद्विशोकद्वादशीव्रतम् 4.84.
अयने विषुवे पुण्ये व्यतीपातेऽथ वा पुनः
विशोकद्वादशी चैषा सर्वपापहरा शुभा
इह लोके तु सौभाग्यमायुरारोग्यमेव च
भवार्बुदसहस्राणि दश चाष्टौ च धर्मवित्
नारी वा कुरुते या तु विशोकद्वादशीमि माम्