उदङ्मुखः प्राङ्मुखो वा दंतधावनपूर्वकम्
विधिवत्त्वां समभ्यर्च्य भोक्ष्यामि अपरेऽहनि
स्नानं सर्वौषधैः कुर्यात्पञ्चगव्यजलेन तु
विशोकाय नमः पादौ जंघे च वरदाय वै
कंदर्पाय नमो गुह्ये माधवाय नमः कटिम्
नाभिं च पद्मनाभाय हृदयं मन्मथाय वै
चक्रिणे नाम बाहुं च दक्षिणं गदिने नमः 4.84.
नासामशोकनिधये वासुदेवाय चाक्षिणी
नमः सर्वात्मने तद्वच्छिर इत्यभिपूजयेत्
ततस्तस्याग्रतो भव्यं स्थंडिलं कारयेन्मृदा
नदीवालुकया पूर्णं लक्ष्म्याकृतिं कृती न्यसेत्
नमो देव्यै नमः शांत्यै नमो लक्ष्म्यै नमः श्रिये
विशोका दुःखनाशाय विशोका वरदास्तु मे
ततः शुक्लांबरधरो शूर्पं संवेष्ट्य पूजयेत्
रजनीषु च सर्वासु पिबेद्दर्भोदकं व्रती
यामत्रये व्यतीते तु सुप्त्वा स्वस्थोपमानसः
शक्तितस्त्रीणि चैकं वा वस्त्रमाल्यानुलेपनैः 4.84.
ततस्तु गीतवाद्याद्यै रात्रौ जागरणे कृते
भोजनं च यथाशक्त्या वित्तशाठ्यविवर्जितः
अनेन विधिना सर्वं मासिमासि समाचरेत् सोपधानकविश्राममास्तरावरणं शुभम्
यथा न लक्ष्मीर्देवेश त्वां परित्यज्य गच्छति
यथा देवेन रहिता न लक्ष्यीर्जायते क्वचित्
मंत्रेणानेन ध्यात्वा तु गुडधेनुसमन्वितम्
उत्पातं करवीरं च बाणमम्लान कुंडलम् कादंबैः कुंकुमैर्जात्या तथान्यैरपि पूजयेत्
किंरूपा केन मंत्रेण दातव्या तदिहोच्यताम्
तदिदानीं प्रवक्ष्यामि सर्वपापप्रणाशनम्
कृष्णाजिनं चतुर्हस्तं प्रागेवं विन्यसेद्भुवि ।। 4.84.
लब्धेन कांचनं तद्वद्वत्सं च परिकल्पयेत्
उत्तमा गुडधेनुः स्यात्सदा भार चतुष्टया ३२. चतुर्थांशेन वत्सः स्याद्गृहवित्ता नुसारतः
धेनुवत्सौ कृतावेतौ सितसूक्ष्मांबरावृतौ