चत्वारः सागरास्ते च कथिता राजसत्तम
योगेश्वरमंगनिधिं विरक्तं पीतवाससम्
कृत्वा तु वैष्णवं योगं यजेद्योगेश्वरं हरिम्
एवं कृत्वा प्रभाते तु ब्राह्मणान्पञ्च भोजयेत्
योगेश्वरं च सौवर्णं दापयेत्प्रयतः शुचिः
वेदवेदांगविदुषे सहस्रगुणितं भवेत्
विधानं तस्य पंचैव दत्त्वा कोटिगुणोत्तरम्
पञ्चदत्त्वा विधानेन द्वादश्यां विष्णुमर्च्य च दीनानाथादिकान्सर्वान्पूजयेच्छक्तितो नृप
धरणीव्रतमेतत्तु पुरा कृत्वा प्रजापतिः
युवनाश्वो हि राजर्षिरनेन विधिना पुरा 4.83.
तथा हैहयदायादः कृतवीर्यो नराधिपः
शकुंतलाप्येवमेव व्रतं चीर्त्वा नरोत्तमम्
तथा पुराणराजानो वेदोक्ताश्चक्रवर्तिनः
धरण्या अपि पाताले मग्नयाचरितं पुरा
समाप्तेऽस्मिंस्तदा देवी हरिणा क्रोडरूपिणा
धरणीव्रतमेतत्ते कथितं पांडुनन्दन सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाव्रजेत्
चीर्णं रसातलतले गतया धरण्या तेन प्रसिद्धिमगमद्धरणीव्रतेति
विशोकद्वादशीव्रतवर्णनम् विभवोद्भवकारि भूतलेऽस्मिन्भवति विभो भयसूदनं च पुंसाम्
तव भक्तिमतस्तथापि वक्ष्ये व्रतमिन्द्रासुरदानवेषु गुह्यम्
पुण्यमाश्वयुजे मासि विशोकद्वादशीव्रतम्
उदङ्मुखः प्राङ्मुखो वा दंतधावनपूर्वकम्
विधिवत्त्वां समभ्यर्च्य भोक्ष्यामि अपरेऽहनि
स्नानं सर्वौषधैः कुर्यात्पञ्चगव्यजलेन तु
विशोकाय नमः पादौ जंघे च वरदाय वै
कंदर्पाय नमो गुह्ये माधवाय नमः कटिम्
नाभिं च पद्मनाभाय हृदयं मन्मथाय वै
चक्रिणे नाम बाहुं च दक्षिणं गदिने नमः 4.84.
नासामशोकनिधये वासुदेवाय चाक्षिणी
नमः सर्वात्मने तद्वच्छिर इत्यभिपूजयेत्
ततस्तस्याग्रतो भव्यं स्थंडिलं कारयेन्मृदा