वासुदेवाय पादौ तु कटिं संकर्षणाय च
चक्रपाणिं भुजौ कंठं मुखं भूपतये तथा 4.83.
एवमभ्यर्च्य मेधावी प्राग्वत्तस्याग्रतो घटम् कांचनं वासुदेवेति चक्रबाहुं सनातनम्
तमभ्यर्च्य विधानेन गंधपुष्पादिभिः क्रमात्
मन्वंतराणि षट्त्रिंशत्ततः कालात्यये पुनः दाता यशःक्षमायुक्तस्ततो निर्वाणमाप्नुयात्
श्रीकृष्ण उवाच एवमेवं श्रावणे तु मासि संकल्प्य द्वादशीम्
बुधाय पादौ संपूज्य श्रीधरायेति वै कटिम्
सुग्रीवायेति वै कण्ठं भुजौ वै चित्रबाहवे
अनेन विधिना सर्वां द्वादशीं समुपोषितः
महतीं च श्रियं प्राप्य पुत्रपौत्रसमन्वितः 4.83.
एष ते विधिरुद्दिष्टः श्रावणे मासि सत्तम किं पुनर्द्वादशैवात्र दद्युरैन्द्रं महत्पदम्
तद्वद्भाद्रपदे मासि शुक्लपक्षे तु द्वादशीम्
नमोऽस्तु कल्किने पादौ हृषीकेशाय वै कटिम्
शितिकण्ठाय कण्ठं तु खड्गपाणीति वै भुजौ
एवमभ्यर्च्य मेधावी प्राग्वत्तस्याग्रतो घटम्
सितवस्त्रयुगच्छन्नं गंधपुष्पोपशोभितम्
एवं कृते भवेद्यत्तु तन्निबोध नृपोत्तम
पूज्यते मत्स्यरूपेण सर्वज्ञत्वमभीप्सुभिः
भवोदधिनिमग्नैस्तु वाराहः पूज्यते हरिः
वामनं मोहनाशाय वित्तार्थे जमदग्निजम् 4.83.
बलकृष्णौ यजेद्धीमान्पुत्रकामो न संशयः सर्वां दत्त्वा विधानेन पूजां प्राप्नोति वांछितम्
संकल्प्याभ्यर्चयेद्देवं पद्मनाभं सनातनम्
पद्मनाभाय पादौ तु कटिं वै पद्मयोनये अव्ययाय तथा शीर्षं प्राग्वदस्त्राणि पूजयेत्
ततस्तस्याग्रतः कुंभं माल्यवस्त्रसमन्वितम्
रात्रौ तु जागरं कृत्वा प्रभाते विमले ततः
एवं कृते तु यत्पुण्यं तद्वक्तुं शक्यते कथम् नश्यंति कृतपुण्यस्य विष्णोर्नामानुकीर्तनात्
श्रीकृष्ण उवाच शृणु राजन्महाबाहो कार्तिके मासि द्वादशीम्
प्राग्विधानेन संकल्प्य वासुदेवं प्रपूजयेत् नमो दामोदरायेति सर्वाङ्गं पूजयेद्धरिम्
एवं संपूज्य विधिना तस्याश्च चतुरो घटान्
स्रग्दामालंबितग्रीवान्सितवस्त्रैश्च गुण्ठितान् 4.83.