अपुत्रो लभते पुत्रमधनो धनमाप्नुयात्
क्रीडित्वा सुचिरं कालमिह मर्त्यमुपागतः 4.83.
वैशाखेऽप्येवमेवं तु संकल्प्य विधिवन्नरः
तत्राराध्य हरिं भक्त्या एभिर्मन्त्रैर्विचक्षणः
मधुसूदनायेति कटिमुरः श्रीवत्सधारिणे
पूजयेन्नियतो भूत्वा सुरूपायेति वै मुखम्
एवमभ्यर्च्य मेधावी प्राग्वंशस्याग्रतो घटम्
वैणवेऽभिनवे पात्रे स्थापयेन्मधुसूदनम्
दक्षिणे परशुं हस्ते तस्य देवस्य कारयेत्
ततस्तस्याग्रतः कुर्याज्जागरं भक्तिमान्नरः
एवं नियमयुक्तस्य यत्फलं तन्निबोध मे स्थित्वा भौते च सृष्टौ च चक्रवर्ती भवेद्ध्रुवम्
ज्येष्ठे मासेऽप्येवमेव संकल्प्य विधिवन्नरः 4.83.
नमो दामोदरायेति पादौ पूर्वं समर्चयेत्
उरः संवर्तकायेति कण्ठं संवत्सराय च
सहस्रशिरसेऽभ्यर्च्य शिरस्तस्य महात्मनः
प्राग्वद्वस्त्रसुगन्धैश्च सौवर्णौ रामलक्ष्मणौ दातव्यौ मनसा काममीहता पुरुषेण तु
अपुत्रेण पुरा पृष्टो राज्ञा दशरथेन तु
इदमेव विधानं तु कथयामास वै द्विजः
तस्य पुत्रः स्वयं जज्ञे रामो नाम महाबलः एतदेवं मयाख्यातं परलोके सुखप्र दम्
अर्चयेत्परमं देवं गंधपुष्पैः समाहितः
वासुदेवाय पादौ तु कटिं संकर्षणाय च
चक्रपाणिं भुजौ कंठं मुखं भूपतये तथा 4.83.
एवमभ्यर्च्य मेधावी प्राग्वत्तस्याग्रतो घटम् कांचनं वासुदेवेति चक्रबाहुं सनातनम्
तमभ्यर्च्य विधानेन गंधपुष्पादिभिः क्रमात्
मन्वंतराणि षट्त्रिंशत्ततः कालात्यये पुनः दाता यशःक्षमायुक्तस्ततो निर्वाणमाप्नुयात्
श्रीकृष्ण उवाच एवमेवं श्रावणे तु मासि संकल्प्य द्वादशीम्
बुधाय पादौ संपूज्य श्रीधरायेति वै कटिम्
सुग्रीवायेति वै कण्ठं भुजौ वै चित्रबाहवे
अनेन विधिना सर्वां द्वादशीं समुपोषितः
महतीं च श्रियं प्राप्य पुत्रपौत्रसमन्वितः 4.83.