तत्र शक्त्या च सौवर्णं वाराहं कारयेत्ततः
माधवं मधुहंतारं वाराहं रूपमास्थितम् 4.83.
स्थापयेत्परमं देवं जातरूपमयं हरिम्
स्थाप्यार्चयेद्गन्धपुष्पैर्नैवेद्यैर्विविधैः फलैः
प्रादुर्भावं हरेर्दिव्यं वाचयेद्गापयेद्बुधः
वेदवेदाङ्गविदुषे साधुवृत्ताय धीमते
एवं सकुंभं दत्त्वा च हरिं वाराहरूपिणम्
इह जन्मनि सौभाग्यं श्रीकान्ती पुष्टिमेव च
एकाऽपि विधिनोपास्ता ददात्यमृतमुत्तमम्
एषा च फाल्गुने मासि शुक्लपक्षे तु द्वादशी
नरसिंहाय पादौ तु गोविंदायोदरं तथा
कंठं तु शितिकंठाय वैनतेयाय वै शिरः . 4.83.
शंखमित्येव संपूज्य गंधपुष्पैः फलैस्तथा
तस्योपरि नृसिंहं तु सौवर्णं ताम्रभाजने
रत्नगर्भमये स्थाप्य भक्त्या संपूज्य मानवः
एषा वंद्या पापहरा द्वादशी भवते मया
एवमेनां नरव्याघ्र चैत्रे संकल्प्य द्वादशीम्
कुण्डिकां स्थापयेत्पार्श्वे छत्रिकां पादुके तथा
फलैः पुष्पैः सुगन्धैश्च प्रभाते सद्द्विजातये
मासनाम्नात्र संयुक्तं प्रादुर्भावं विधानतः
अपुत्रो लभते पुत्रमधनो धनमाप्नुयात्
क्रीडित्वा सुचिरं कालमिह मर्त्यमुपागतः 4.83.
वैशाखेऽप्येवमेवं तु संकल्प्य विधिवन्नरः
तत्राराध्य हरिं भक्त्या एभिर्मन्त्रैर्विचक्षणः
मधुसूदनायेति कटिमुरः श्रीवत्सधारिणे
पूजयेन्नियतो भूत्वा सुरूपायेति वै मुखम्
एवमभ्यर्च्य मेधावी प्राग्वंशस्याग्रतो घटम्
वैणवेऽभिनवे पात्रे स्थापयेन्मधुसूदनम्
दक्षिणे परशुं हस्ते तस्य देवस्य कारयेत्
ततस्तस्याग्रतः कुर्याज्जागरं भक्तिमान्नरः