एवं कृते कल्पयुगांतराणि स्वर्गे वसेत्सर्वसमृद्धकामः
संसारचक्रं स विहाय शीघ्रमाप्नोति लोके तु हरेः पुराणे 4.83.
अनेकजन्मार्जितसंयुतानि नश्यंति पापानि नरस्य भक्त्या
एवं माघे सिते पक्षे द्वादशीं धरणीधर
प्रागुक्तेन विधानेन स्नानं संकल्पमेव च
धूपनैवेद्यगंधैस्तु अर्चयित्वा पुनर्नरः
वराहायेति पादौ तु माधवायेति वै कटिम्
पूर्वत्रायेति कंठं तु प्रजानां पतये शिरः
अमृतोद्भवाय शंखं तु गदिने च गदां तथा
सौवर्णं रूप्यं ताम्रं वा पात्रं विभवशक्तितः
तत्र शक्त्या च सौवर्णं वाराहं कारयेत्ततः
माधवं मधुहंतारं वाराहं रूपमास्थितम् 4.83.
स्थापयेत्परमं देवं जातरूपमयं हरिम्
स्थाप्यार्चयेद्गन्धपुष्पैर्नैवेद्यैर्विविधैः फलैः
प्रादुर्भावं हरेर्दिव्यं वाचयेद्गापयेद्बुधः
वेदवेदाङ्गविदुषे साधुवृत्ताय धीमते
एवं सकुंभं दत्त्वा च हरिं वाराहरूपिणम्
इह जन्मनि सौभाग्यं श्रीकान्ती पुष्टिमेव च
एकाऽपि विधिनोपास्ता ददात्यमृतमुत्तमम्
एषा च फाल्गुने मासि शुक्लपक्षे तु द्वादशी
नरसिंहाय पादौ तु गोविंदायोदरं तथा
कंठं तु शितिकंठाय वैनतेयाय वै शिरः . 4.83.
शंखमित्येव संपूज्य गंधपुष्पैः फलैस्तथा
तस्योपरि नृसिंहं तु सौवर्णं ताम्रभाजने
रत्नगर्भमये स्थाप्य भक्त्या संपूज्य मानवः
एषा वंद्या पापहरा द्वादशी भवते मया
एवमेनां नरव्याघ्र चैत्रे संकल्प्य द्वादशीम्
कुण्डिकां स्थापयेत्पार्श्वे छत्रिकां पादुके तथा
फलैः पुष्पैः सुगन्धैश्च प्रभाते सद्द्विजातये
मासनाम्नात्र संयुक्तं प्रादुर्भावं विधानतः