पृच्छन्ति विनयेनैव सूतं पौराणिकं खलु
भगवन्ब्रूहि लोकानां हितार्थाय चतुर्युगे
विनायासेन वै कामं प्राप्नुयुर्मानवाः शुभम्
जगत्त्राणहेतुं रिपौ धूम्रकेतुं सदा सत्यनारायणं स्तौमि देवम्
श्रीरामं सहलक्ष्मणं सकरुणं सीतान्वितं सात्त्विकं वैदेहीमुखपद्मलुब्धमधुपं पौलस्त्यसंहारकम्
कलिकलुषविनाशं कामसिद्धिप्रकाशं सुरवरमुखभासं भूसुरेण प्रकाशम्
एकदा नारदो योगी परानुग्रहवांच्छया
तत्र दृष्ट्वा जनान्सर्वान्नानाक्लेशसमन्वितान्
केनोपायेन चैतेषां दुःखनाशो भवेद्ध्रुवम्
तत्र नारायणं देवं शुक्लवर्णं चतुर्भुजम् 3.2.24.
प्रसन्नवदनं शांतं सनकाद्यैरभिष्टुतम्
नादि मध्यान्तदेवाय निर्गुणाय महात्मने
सर्वेषामादिभूताय लोकानामुपकारिणे
सूत उवाच इति श्रुत्वा स्तुतिं विष्णुर्नारदं प्रत्यभाषत
कथयस्व महाभाग तत्सर्वं कथयामि ते
नारदस्य वचः श्रुत्वा साधुसाध्वित्यपूजयत्
कृते त्रेतायुगे विष्णुर्द्वापरेऽनेकरूपधृक्
चतुष्पादो हि धर्मश्च तस्य सत्यं प्रसाधनम्
सत्यनारायणव्रतमतः श्रेष्ठतमं स्मृतम्
किं फलं किं विधानं च सत्यनारायणार्चने 3.2.24.
शृणु संक्षेपतो ह्येतत्कथयामि तवाग्रतः
निर्धनोपि धनाढ्यः स्यादपुत्रः पुत्रवान्भवेत्
मुच्यते बंधनाद्बद्धो निर्भयः स्याद्भयातुरः
इह जन्मनि भो विप्र भक्त्या च विधिनार्चयेत्
प्रातःस्नायी शुचिर्भूत्वा दंतधावनपूर्व कम्
नारायणं सांद्रघनावदातं चतुर्भुजं पीतमहार्हवाससम्
करोमि ते व्रतं देव सायंकाले त्वदर्चनम्
इति संकल्प्य मनसा सायंकाले प्रपूजयेत्
शालग्रामं स्वर्णयुक्तं पूजयेदात्मसूक्तकैः
ॐनमो भगवते नित्यं सत्यदेवाय धीमहि 3.2.24.