इत्यदित्यादर्शनमन्त्रः त्रिःकृत्वाशेषमृदया कुण्डमालिख्य वै जले
ततः स्नात्वा नरः सम्यक्चक्रवर्त्युपचारकः 4.83.
तमाराध्य महायोगं देवं नारायणं प्रभुम्
ऊरुयुग्मं नृसिंहाय उरः श्रीवत्सधारिणे
त्रैलोक्यविजयायेति बाहु सर्वात्मने शिरः
गम्भीरायेति च गदामभयं शांतमूर्तये
पुनस्तस्याग्रतः कुम्भांश्चतुरः स्थापयेद्बुधः
चतुर्भिस्तिलपात्रैश्च स्थगितान्रत्नसंयुतान्
तेषां मध्ये तु संपीठं स्थापयेद्वस्त्रसंवृतम् पात्रं तोयभृतं कृत्वा तस्य मध्ये ततो न्यसेत्
सौवर्णं मात्स्यरूपेण कृत्वा देवं जनार्दनम्
भक्ष्यैर्बहुविधै राजन्फलैः पुष्पैश्च शोभितम्
रसातलगता वेदा यथा देव त्वयाहृताः 4.83.
एवमुच्चार्य तस्याग्रे जागरं तत्र कारयेत् चतुर्णां ब्राह्मणानां तु चतुरो दापयेद्धटान्
पूर्वं तु बह्वृचे दयाच्छंदोगे दक्षिणं तथा
उत्तरं कामतो दद्याद्देश एव विधिक्रमात्
यजुषः पश्चिमो नाम्ना आथर्वायोत्तरं तथा
ततस्तं जलपात्रस्थं ब्राह्मणाय कुटुंबिने
ब्राह्मणान्पायसान्नेन ततः पश्चात्स्वयं गृही
अनेन विधिना यस्तु द्वादशीं क्षपयेन्नरः
यदि वक्त्रसहस्राणि भवंति हि युगेयुगे तदस्य फलसंख्यानं कर्तुं शक्यं न धारयेत्
यः कृष्णद्वादशीमेतामनेन विधिना नृप
ब्रह्महत्यादिपापानि जन्मांतरकृतान्यपि 4.83.
तथैव पौषमासेन अमृतं मथितं सुरैः
तस्येयं तिथिरुद्दिष्टा हरेर्वै कूर्मरूपिणः
तस्यां प्राग्वत्संकल्पः प्रातःस्नानादिकाः क्रियाः प्रीयमंत्रैर्नृपश्रेष्ठ देवदेवं जगद्गुरुम्
कूर्माय पादौ प्रथमं सुपूज्य नाराणायेति कटिं हरेस्तु
सुबाहवेत्येव भुजौ शिरश्च सर्वात्मने पांडव पूजनीयौ
एभिर्मन्त्रैः पुष्पसुगन्धधूपैर्नैवे द्यदीपैर्विविधैः फलैश्च
तं रत्नगर्भं सुसुगंधतोयं कृत्वा ततो हेममयं स्वश क्त्या
घृतैश्च पूर्णे कलशाऽग्रसंस्थं संपूजयेज्जागरनृत्यगीतैः निर्वर्त्य सर्वं विधिवत्ततश्च भुञ्जीत संतुष्टमनाः सभृत्यः