यथैक एव धर्मात्मा वासुदेवो व्यवस्थितः 4.82.
प्रयातु सुकृतस्यास्तु ममानुदिवसञ्जयः
एवमुच्चार्य विप्राय दद्याद्यत्कथितं तव
पारणांते तु देवेश प्रीणनं शक्तितो नृप
एवं संवत्सरस्यांते कांचनीं प्रतिमां हरेः
गां सवत्सां च विप्राय दद्याच्छ्रद्धासमन्वितः
तस्मिन्नहनि दातव्यं भोजने चानिवारितम् द्वादशी नरकं पार्थ यामुपोष्य न पश्यति
नाग्नयो न च शस्त्राणि न च लोहमुखाः खगाः
नामोच्चारणमात्रेण विष्णोः क्षीणाघसंचयः
नमो नारायण हरे वासुदेवेति कीर्तयन्
तस्मात्पाखंडिसंसर्गमकुर्वन्द्वादशीमिमाम् 4.82.
पापं क्षिणोति सुकृतस्य करोति वृद्धिं वृद्धिं प्रयच्छति नियच्छति सर्वदोषान्
धरणीव्रतवर्णनम् स देवः पुण्डरीकाक्षः स्वयं नारायणो हरिः
स यज्ञैर्विविधैरिष्टैर्व्रतैश्च यदुसत्तम
बहुवित्तेन भगवन्नृत्विग्भिर्वेदपारगैः
वित्तेन च विना दानं दातुं कृष्ण न शक्यते
तस्य मोक्षः कथं कृष्ण सर्वथा दुर्ल्लभो हरिः तन्मे सामान्यतो ब्रूहि सर्ववर्णेषु यद्भवेत्
धरण्या यत्कृतं पूर्वं मज्जन्त्या वसुधातले
पृथिव्याः पार्थिव पुरा संजातः संगमोऽम्बुभिः
सा भूतधात्री धरणी रसातलगता शुभा
उपवासव्रतैर्देवी नियमैश्च पृथग्विधैः उज्जहार स्थितौ चेमां स्थापयामास चाच्युतः
प्राप्ते मार्गशिरे मासे दशम्यां नियतात्मवान् 4.83.
शुचिवासाः प्रसन्नात्मा ह्यत्यल्पान्न सुसंस्कृतम्
कृत्वाष्टांगुलमात्रं तु क्षीरवृक्षसमुद्भवम्
स्पृष्ट्वा न्यस्यान्यकर्माणि चिरं ध्यात्वा जनार्दनम्
एवमुच्चारयेद्वाचं तस्मिन्काले महाद्युते संभोक्ष्ये पुण्डरीकाक्ष शरणं मे भवाच्युत
एवमुक्त्वा ततो देव देवदेवस्य सन्निधौ
ततः प्रभाते विमले नदीं गत्वा समुद्रगाम्
आनीय मृत्तिकां शुद्धां मंत्रेणानेन मानवः तेन सत्त्वेन मां पाहि पापान्मोचय सुव्रते
ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवेः