यथैतद्वदतार्तेन भवता परिदेवितम्
पापमत्र कृतं प्रेत्य भद्र तापाय जायते 4.82.
सीरभद्रं समाश्वास्य ययावित्थं महामुनिः
उपवासप्रभावश्च कथितस्ते नरोत्तम
तस्मान्नरेण पुण्याय यतितव्यं न पातकम्
पुरुषैर्भुज्यते शश्वत्तं मोक्षं वद सत्तम
जया सा द्वादशी शस्ता नृणां सुकृतकर्मणाम्
फाल्गुनामलपक्षस्य एकादश्यामुपोषितः
एकादश्यां समुत्तिष्ठन्विष्णोर्नामानुकीर्तयन्
कामं क्रोधं च लोभं च मदं मोहं च वर्जयेत् ४८- एवं भावितचित्तेन प्राणिनां हितमिच्छता
नमो नारायणायेति वक्तव्यं स्वपता निशि 4.82.
सौवर्णताम्रपात्राणि मृन्मयान्यपि पांडव
आषाढादिद्वितीयं तु पारयेच्च महामते
कार्त्तिकादिषु मासेषु माघांतेषु तथा तिलान्
नामत्रयमशेषेण मासिमासि दिनद्वयम् प्रणम्य च हृषीकेशं कृतपूजः प्रसादयेत्
विष्णो नमस्ते जगती प्रसोत्रे श्रीवासुदेवाय नमो नमस्ते
प्रसीद पुण्यं जयमेति विष्णो श्रीवासुदेवर्द्धिमुपैतु पुण्यम्
विष्णो पुण्योद्भवो मेस्तु वासुदेवास्तु मे शुभम्
अनेक जन्मजनितं बाल्ययौवनवार्द्धके
आकाशादिषु शब्दादौ श्रोत्रादौ महदादिषु
यथैक एव धर्मात्मा वासुदेवो व्यवस्थितः 4.82.
प्रयातु सुकृतस्यास्तु ममानुदिवसञ्जयः
एवमुच्चार्य विप्राय दद्याद्यत्कथितं तव
पारणांते तु देवेश प्रीणनं शक्तितो नृप
एवं संवत्सरस्यांते कांचनीं प्रतिमां हरेः
गां सवत्सां च विप्राय दद्याच्छ्रद्धासमन्वितः
तस्मिन्नहनि दातव्यं भोजने चानिवारितम् द्वादशी नरकं पार्थ यामुपोष्य न पश्यति
नाग्नयो न च शस्त्राणि न च लोहमुखाः खगाः
नामोच्चारणमात्रेण विष्णोः क्षीणाघसंचयः
नमो नारायण हरे वासुदेवेति कीर्तयन्