तस्यैतद्वचनं श्रुत्वा विपीतस्य सवेदनः
अशाश्वते शाश्वतधीस्तेन दह्यामि दुर्मतिः ।। 4.82.
इदं करिष्याम्यपरं त्विदं कृत्वा त्विदं पुनः
शीतोष्णवर्षादिभवं लोभात्सोढं मयाऽशुभम्
पितृदेवमनुप्याणामदत्त्वा यापिता हि ये
पुत्रक्षेत्रकलत्रेषु ममत्वाहृतचेतसा
मृते मयि धने तस्मिन्नन्यायोपार्जिते सदा
न मया पूजिता गेहान्निर्गता द्विजसत्तमाः
यन्मे न पूजिता देवाः कुटुंबं पोषितं परम्
नित्यं नैमित्तिकं कर्म पूर्वेषां चैव नो कृतम्
दाराः पुत्राश्च भृत्याश्च पापबुद्ध्या मया भृताः
दाराः पुत्राश्च भृत्यार्थे मया न्यायार्थसंचयः 4.82.
क्षतपापं मया भुक्तमन्यैस्तत्कर्म संचितम्
यन्ममत्वाभिभूतेन मया पापमुपार्जितम्
अंतर्दुःखेन दग्धोऽहं बहिर्दह्यामि भावयन्
कुरु तस्मात्समुद्धारं पश्यस्यमृतसागरम्
प्रक्षीणं पापमेतावत्सुवृत्तं चास्ति ते परम्
प्रतीते दशमे जन्मन्यच्युताराधनेच्छया न च तस्याः प्रसादेन पापमत्यन्तदुर्जयम्
अल्पैरहोभिः संक्षीणमामपात्रे यथा जलम्
नाशं पापस्य कुरुते जयं सुकृतकर्मणः
यथैतद्वदतार्तेन भवता परिदेवितम्
पापमत्र कृतं प्रेत्य भद्र तापाय जायते 4.82.
सीरभद्रं समाश्वास्य ययावित्थं महामुनिः
उपवासप्रभावश्च कथितस्ते नरोत्तम
तस्मान्नरेण पुण्याय यतितव्यं न पातकम्
पुरुषैर्भुज्यते शश्वत्तं मोक्षं वद सत्तम
जया सा द्वादशी शस्ता नृणां सुकृतकर्मणाम्
फाल्गुनामलपक्षस्य एकादश्यामुपोषितः
एकादश्यां समुत्तिष्ठन्विष्णोर्नामानुकीर्तयन्
कामं क्रोधं च लोभं च मदं मोहं च वर्जयेत् ४८- एवं भावितचित्तेन प्राणिनां हितमिच्छता